ग्रंथ पाठ
बोधिसत्त्वयोगाचारचतुःशतकटीका · अध्याय 3
3.23
प्रतिनासिकया तुष्टिः स्याद् धीनाङ्गस्य कस्यचित् ।
रागो ऽशुचिप्रतीकारे पुष्पादाव् इष्यते तथा ॥
3.24
शुचि नाम न तद् युक्तं वैराग्यं यत्र जायते ।
न च सो ऽस्ति क्वचिद् भावो नियमाद् रागकारणम् ॥
3.25
अनित्यम् अशुभं दुःखम् अ नात्मेति चतुष्टयम् ।
एकस्मिन्न् एव सर्वाणि सम्भवन्ति समासतः ॥
मूल पाठ: Bodhisattvayogācāracatuḥśatakaṭīkā · Edition: Kōshin Suzuki Sanskrit Fragments and Tibetan Translation of Candrakīrti's Bodhisattvayogācāracatuḥśatakaṭīkā Tokyo The Sankibo Press Manuscript edited by Suzuki . · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0