बोधिसत्त्वयोगाचारचतुःशतकटीका · अध्याय 10
अन्तरात्मा यदा न स्त्री न पुमान् न नपुंसकम् ।
तदा केवलम् अज्ञानाद् भावस् ते ऽहं पुमान् इति ॥
यदा सर्वेषु भूतेषु नास्ति स्त्रीपुंनपुंसकम् ।
तदा किं नाम तान्य् एव प्राप्य स्त्रीपुंनपुंसकम् ॥
यस् तवात्मा ममानात्मा तेनात्मा नियमान् न सः ॥
नन्व् अनित्येषु भावेषु कल्पना नाम जायते ॥
देहवद् विकृतिं याति पुमाञ् जन्मनि जन्मनि ॥
देहा त् तवान्यता तस्य नित्यता च न युज्यते ॥
आ विनाशाच् चलं नाम द्रव्यं नास्ति क्रिया यथा ॥
पुरुषो ऽस्ति न चैतन्यम् इति तेन न युज्यते ॥
करणं जायते मिथ्याचैतन्यं शाश्वतं यदि ।
चेतनाधातुर् अन्यत्र दृश्यते ऽन्यत्र चेतना ॥
द्रवत्वम् इव लोहस्येति ॥
द्रवत्वम् इव लोहस्य विकृतिं यात्य् अतः पुमान् ॥
चैतन्यं च मनोमात्रे महांश् चाकाशवत् पु मान् ॥
अचैतन्यं ततस् तस्य स्वरूपम् इव दृश्यते ॥
पर स् त्व् अवेति किं नाहम् अहं सर्वगतो यदि ॥
तेनैवावरणं नाम न तस्यैवोपपद्यते ॥
येषां गुणानां कर्तृत्वम् अचैतन्यं च सर्वशः ।
तेषाम् उन्मत्तकानां च न किंचिद् विद्यते ऽन्तरम् ॥
तेषाम् उन्मत्त काना ं च न किंचिद् विद्यते ऽन्तरम्
कर्तुं नाम विजानन्ति गृहादीन् सर्वथा गुणाः ।
भोक्तुं च न विजानन्ति किम् अयुक्तम् अतः परम् ॥
क्रियावाञ् छाश्वतो नास्ति ॥
सम्भवः क्रियते यस्य प्राक् सो ऽस्तीति न युज्यते ।
सतो यदि भवेज् जन्म जातस्यापि भवेद् भवः ॥
मूल पाठ: Bodhisattvayogācāracatuḥśatakaṭīkā · Edition: Kōshin Suzuki Sanskrit Fragments and Tibetan Translation of Candrakīrti's Bodhisattvayogācāracatuḥśatakaṭīkā Tokyo The Sankibo Press Manuscript edited by Suzuki . · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0