भाषा

ENहिગુ
ग्रंथ पाठ

बोधिपथप्रदीप · श्लोक 41-60

41

अतः समाधिसम्भाराध्यायोक्ताङ्गसमाश्रितः ।
कस्मिंश्चित् अलम्बने ऽपि पुण्ये संस्थापयेन्मनः

42

योगिनः शमथे सिद्धे ऽभिज्ञानं चापि सेत्स्यति ।
प्रज्ञापारमितायोगं विना नावरणक्षयः

43

क्लेशज्ञेयावृतेस्तस्मात् प्रहाणार्थमशेषतः ।
प्रज्ञापारमितां योगी सोपायं भावयेत् सदा

44

उपायरहिता प्रज्ञाप्युपायः प्रज्ञया विना ।
यतो बन्ध इति प्रोक्तौ प्रहेयं नोभयं ततः

45

का प्रज्ञा क उपायश्च शङ्कामिति निरासितुम् ।
उपायस्य च प्रज्ञायाः भेदः सम्यक् प्रकाश्यते

46

प्रज्ञापारमितां त्यक्त्वा दानपारमितादयः ।
सर्वे हि कुशलाः धर्माः उपायाः जिनभाषिताः

47

उपायाभ्यासवश्यात्मा यो हि प्रज्ञां विभावयेत् ।
शीघ्रं स लभते बोधिं न नैरात्म्यैकभावनात्

48

स्कन्धायतनधातूनामनुत्पादावबोधिनाम् ।
स्वभावशून्यताज्ञानं प्रज्ञेति परिकीर्तिता

49

सदुत्पत्तिरयुक्तास्ति असच्चापि खपुष्पवत् ।
द्वयोर्दोषप्रसङ्गत्वात् उद्भावो न द्वयोरपि

50

अनुत्पन्नः स्वतो भावो परतो नोभयोरपि ।
अहेतुतेश्च नो तस्मात् निःस्वभावः स्वरुपतः

51

अथवा सर्वधर्माणां चैकानेकविचारणे ।
स्वरुपाप्राप्यमाणत्वात् निःस्वभावत्वनिश्चयः

52

शुन्यतासप्तौ युक्तौ मूलमध्यमकादिषु ।
सिद्धो भावस्वभावस्तु शुन्यतायां भाषितः

53

ग्रन्थस्य गौरवो यस्मात् अत्र तस्मान्न विस्तरः ।
सिद्धसिद्धान्तमात्रैकं भावनार्थं प्रभाषितम्

54

तस्मादशेषधर्माणां स्वभावनामलाभतः ।
नैरात्म्यभावना या हि सा प्रज्ञायास्तु भावना

55

प्रज्ञया सर्वधर्मणां यत्स्वभावो न दृष्टवत् ।
युक्तया परीक्ष्य तां प्रज्ञां सो ऽविकल्पेन भावयेत्

56

भवो विकल्पोभूतो ऽयं तद्विकल्पात्मकस्ततः ।
सर्वकल्पपरित्यागः निवार्णः परमो ऽस्ति हि

57

एवमप्युक्तं भगवता - -
महाविद्या विकल्पो हि संसारार्णवपातकः ।
निर्विकल्पसमाधिस्थे ऽविकल्पो भासते खवत्

58

अविकल्पप्रवेशधारण्यामपि उक्तम् - -
चिन्तितेनिर्विकल्पे ऽस्मिन् सद्धर्मे जिनपुत्रकैः ।
विकल्पं दुर्गमं तीर्त्वाविकल्पो प्राप्स्यते क्रमात्

59

निश्चयीयागमयुक्तिभ्यां स्वभाव रहितान् तथा ।
सर्वान् धर्मानुत्पन्नानविकल्पं भावयेत्

60

भावयन्निदमेवेत्थं प्राप्योष्णत्वादिकं क्रमात् ।
लभते प्रमुदित्वादिं बुद्धबोधिर्न लम्बिता

मूल पाठ: Bodhipathapradīpa · Edition: Shastri, Losang Norbu: Bodhipathpradipa of Atisha. Sarnath: Central Institute of Higher Tibetan Studies, 1984, 1-70. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc