बोधिपथप्रदीप · श्लोक 21-40
भाग्यं बोधिसत्त्वानां संवरस्य न चान्यथा ।
सप्तधा प्रातिमोक्षेषु भाषितेषु तथागतैः
ब्रह्मचर्यश्रियः श्रेष्ठाः भिक्षुसंवर इष्यते ।
शीलाध्यायोक्तविधिना बोधिसत्त्वस्य भुमिषु
संवरः सद्गुरोर्ग्राह्यः सम्यग्लक्षणयुक्ततः ।
यः संवरविधौ दक्षः स्वयं च संवरे स्थितः
कृपालुः संवरे शक्तः ज्ञातव्यः सद्गुरुस्तु सः ।
तत्र यत्नेन न प्राप्तो गुरुश्चैतादृशो यदि
संवरग्रहणस्यान्यो विधिः तस्मात् समुयच्ते ।
अम्बरराजभुतेन पूर्वं मञ्जुश्रिया यथा
बोधिचित्तं समुत्पादि सुस्पष्टं चात्र लिख्यते ।
मञ्जुश्रिबुद्धक्षेत्रालङ्कारसूत्रोक्तिवत् तथा
उत्पादयामि सम्बोधौ चित्तं नाथस्य सम्मुखम् ।
निमन्त्रये जगत्सर्वं दारिद्यान्मोचितास्मि तत्
व्यापादखिलचित्तं वा ईर्ष्यामात्सर्यमेव व ।
अध्याग्रे न करिष्यामि बोधिं प्राप्स्यामि यावता
ब्रह्मचर्यं चरिष्यामि कामांस्त्यक्ष्यामि पापकान् ।
बुद्धानामानुशिक्षिष्ये शीलसंवर संयमे
नाहं त्वरितरुपेण बोधिं प्राप्तुमिहोत्सहे ।
परान्तकोटिं स्थास्यामि सत्त्वस्यैकस्य कारणात्
क्षेत्रं विशोधिष्यामि अप्रमेयमचिन्तिम् ।
नामधेयं करिष्यामि दशदिक्षु च विश्रुतम्
कायवाक्कर्मणी चाहं शोधयिष्यामि सर्वशः ।
शोधयिष्ये मनस्कर्म कर्तास्मि नाशभम्
स्वकायवाकचित्तविशुद्धिहेतु, प्रस्थानचित्तात्मयमस्थितेन ।
त्रिशीलशिक्षापरिशियेत चेत्, त्रिशीलशिक्षासु महादरस्यात्
शुद्धसम्बोधिसत्त्वानां तस्मात् संवरसंवृतौ ।
यत्नात् सम्बोधिसम्भारः परिपूर्णो भविष्यति
पुण्यज्ञानस्वभावस्य सम्भारस्य तु पूर्तये ।
सर्वबुद्धमतोहेतुरभिज्ञोत्पाद एव हि
पक्षवृद्धिं विना पक्षी खे नोडडेतुं यथा क्षमः ।
तथाभिज्ञाबलैर्हीनः सत्त्वार्थकरणे ऽक्षमः
अभिज्ञस्य दिवारात्रौ यानि पुण्यानि सन्ति वै ।
अभिज्ञायाश्च राहित्ये नैव जन्मशतेषु च
शीघ्रं सम्बोधिसम्भारं सम्पूरयितुमिच्छति ।
निरालस्येन यत्नेनाभिज्ञां संसाधयेत्तु सं
शमथसिद्धयभावे ऽभिज्ञानं न जायते ।
अतः शमथसिद्धयर्थं यतितव्यं पुनः पुनः
शमथङ्गप्रहीणत्वे तद्यत्नैर्भाविते ऽपि च ।
संवत्सरसहस्रैश्च समाधिर्नैव सेत्स्यति
मूल पाठ: Bodhipathapradīpa · Edition: Shastri, Losang Norbu: Bodhipathpradipa of Atisha. Sarnath: Central Institute of Higher Tibetan Studies, 1984, 1-70. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0