बोधिपथप्रदीप · श्लोक 61-69
साधितैर्मन्त्रशक्तया हि शान्तिविस्तरकर्मभिः ।
भद्रकुम्भादिसिद्धाष्टमहासिद्धिबलेन च
अभीष्टा बोधिसम्भारपरिपूर्तिः सुखेन चेत् ।
क्रियाचर्यादि तन्त्रोकम् गुह्याचरणभिष्यते
तदाचार्यभिषेकार्थं महारत्नादिदानतः ।
सद्गुरुं प्रीणयेद् भक्तया सर्वाञ्ज्ञादिपालनैः
प्रसन्ने च गुरौ भूते पूर्णाचार्याभिषेकतः ।
सर्वपापविशुद्धात्मा सिद्धिभागी भविष्यति
आदिबुद्धमहातन्त्रे प्रयत्नेन निषेधतः ।
गुह्यप्रज्ञाभिषेकस्तु न ग्रह्या ब्रह्मचाररिणा
सो ऽभिषेको गृहीतश्चेत् ब्रह्यचर्यतपः स्थितैः ।
निषिद्धाचरणत्वात् तत्तपः सम्वरक्षयः
जायन्ते व्रतिनस्तस्य पाराजिकविपत्तयः ।
सः पतेद्दुर्गतौ नूनं सिद्धिर्नैव कदाचन
सर्वतन्त्रश्रुतौ भाष्ये होमयज्ञादिकर्मासु ।
लब्धाचार्याभिषेकश्च तत्त्वविद नैव दुष्यति
दीपङ्करश्रिया बोधिपथः प्रोक्तः समासतः ।
दृअष्ट्वा सूत्रादिधर्मोक्तिं बोधिप्रभनिवेदनात्
मूल पाठ: Bodhipathapradīpa · Edition: Shastri, Losang Norbu: Bodhipathpradipa of Atisha. Sarnath: Central Institute of Higher Tibetan Studies, 1984, 1-70. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0