बोधिपथप्रदीप · श्लोक 1-20
नमो बोधिसत्त्वाय मञ्जुश्रिये कुमारभूताय ।
कालत्रयाखिलजिनांश्च तदीयधर्मान् सङ्घान् महादरतया प्रणिपत्य चापि ।
बोधिप्रभेण कथितो विशदीकरोमि शिष्योत्तमेन खलु बोधिपथप्रदिपम्
पुरुषास्त्रिविधा ज्ञेया उत्तमाधममध्माः ।
लिख्यते लक्षणं तेषां स्फुटं प्रत्येकभेदतः
उपायेन तु केनापि केवलं संसृतेः सुखम् ।
स्वस्यैवार्थे य ईहेत ज्ञेयः सो पुरुषो ऽधमः
पापकर्मनिवृत्तात्मा भवसुखात् पराङ्मुखः ।
आत्मनिर्वाणमात्रार्थी यो नरो मध्यमस्तु सः
स्वसन्तानगतैर्दुःखैर्दुःखस्यान्यस्य सर्वथा ।
सर्वस्य यः क्षयं काङ्क्षेदुत्तमः पुरुषस्तु सः
काङ्क्षन्तो हि वरां बोधिं सत्त्वानामुत्तमास्तथा ।
दर्शितान् गुरुभिस्तेभ्यः सदुपायां प्रचक्ष्महे
सम्बुद्धचित्रमूर्त्यादिस्तूपसद्धर्मसम्मुखः ।
पुष्पैधुपैः पदार्थैश्च यथाप्राप्तैः सुपूजयेत्
समन्तभद्रचर्योक्ता पूजा सप्तविधापि च ।
बोधिसारस्य पर्यन्तम् अवैवर्तिकचित्ततः
सुश्रद्धया त्रिरत्नेयः भुमौ संस्थाप्य जानुनी ।
भूत्वा कृताञ्जलिश्चापि त्रिश्चादौ शरणं व्रजेत्
ततः समस्तसत्त्वेषु मैत्रीचित्त पुरस्कृतः ।
दुर्गतित्रयाजन्मादिसङ्क्रान्तिमरणादिभिः
दृष्ट्वाशेषं जगद्दुखं दुःखेन दुखितायाश्च ।
दुःखहेतोस्तथा दुःखात् जगतां मुक्तिकाङ्क्षया
बोधिचित्तं समुत्पाद्यमनापायिप्रतिज्ञया ।
एवं प्रणिधिचित्तानाम् उत्पादेतु गुणाश्च ये
ते गण्डव्यूहसूत्रेषु मैत्रेयेण प्रभाषिताः ।
सूत्रस्य तस्य पठनाच्छ्रवणाद् गुरोर्वा
सम्बोधिचित्तगुणकानि निरन्तकानि
विज्ञाय तस्य खलु संस्थितारर्णान ।
चित्तं तथा समुदयेत मुहुर्मुहश्च ।
वीरदत्तपरीपृच्छासूत्रे पुण्यं प्रदर्शितम्
यत्तच्श्लोकत्रयेणैव समासेनात्रलिख्यते ।
बोधिचित्ताद्धि यत्पुण्यं तच्च रुपि भवेद्यदि
आकाशधातुं सम्पूर्य भुयश्चोत्तरि तद्भवेत् ।
गङ्गावालिकसङ्ख्यानि बुद्धक्षेत्राणि यो नरः
दद्यात्सद्रत्न पूर्णानि लोकनाथेभ्य एव हि ।
यश्चैकः प्राञ्जलिर्भूत्वा चित्तं बोधाय नामयेत्
इयं विशेष्यते पूजा यस्यान्तो ऽपि न विद्यते ।
उत्पाद्यबोधिप्रणिधानचित्तं नैकप्रयत्नैः परिवर्धितव्यम्
जन्मान्तरे ऽपि स्मरणार्थमस्य शिक्षा यथोक्ता परिपालनीया ।
प्रस्थानचित्ते स्वयमातिरिक्तं सम्यग्भवेन्न प्रणिधानवृद्धिः
सम्बोधिसंवार विवृद्धिकामः तस्माद् ध्रुवं चैनमवाप्नुयात ।
सप्तधाप्रातिमोक्षैश्च सदान्यसंवरान्वितः
मूल पाठ: Bodhipathapradīpa · Edition: Shastri, Losang Norbu: Bodhipathpradipa of Atisha. Sarnath: Central Institute of Higher Tibetan Studies, 1984, 1-70. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0