भाषा

ENहिગુ
ग्रंथ पाठ

बोधिचर्यावतार (अन्य संस्करण) · अध्याय 9

9.1

बोधिचर्यावतारे ध्यानपारमिता नाम अष्टमः परिच्छेदः ॥
9 प्रज्ञापारमिता नाम नवमः परिच्छेदः ।
इमं परिकरं सर्वं प्रज्ञार्थं हि मुनिर्जगौ ।
तस्मादुत्पादयेत्प्रज्ञां दुःखनिवृत्तिकाङ्क्षया

9.2

संवृतिः परमार्थश्च सत्यद्वयमिदं मतम् ।
बुद्धेरगोचरस्तत्त्वं बुद्धिः संवृतिरुच्यते

9.3

तत्र लोको द्विधा दृष्टो योगी प्राकृतकस्तथा ।
तत्र प्राकृतको लोको योगिलोकेन बाध्यते

9.4

बाध्यन्ते धीविशेषेण योगिनो ऽप्युत्तरोत्तरैः ।
दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः

9.5

लोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः ।
न तु मायावदित्यत्र विवादो योगिलोकयोः

9.6

प्रत्यक्षमपि रूपादि प्रसिद्ध्या न प्रमाणतः ।
अशुच्यादिषु शुच्यादिप्रसिद्धिरिव सा मृषा

9.7

लोकावतारणार्थं च भावा नाथेन देशिताः ।
तत्त्वतः क्षणिका नैते संवृत्या चेद्विरुध्यते

9.8

न दोषो योगिसंवृत्या लोकात्ते तत्त्वदर्शिनः ।
अन्यथा लोकबाधा स्यादशुचिस्त्रीनिरूपणे

9.9

मायोपमाज्जिनात्पुण्यं सद्भावे ऽपि कथं यथा ।
यदि मायोपमः सत्त्वः किं पुनर्जायते मृतः

9.10

यावत्प्रत्ययसामग्री तावन्मायापि वर्तते ।
दीर्घसंतानमात्रेण कथं सत्त्वो ऽस्ति सत्यतः

9.11

मायापुरुषघातादौ चित्ताभावान्न पापकम् ।
चित्तमायासमेते तु पापपुण्यसमुद्भवः

9.12

मन्त्रादीनामसामर्थ्यान्न मायाचित्तसंभवः ।
सापि नानाविधा माया नानाप्रत्ययसंभवा ।
नैकस्य सर्वसामर्थ्यं प्रत्ययस्यास्ति कुत्रचित्

9.13

निर्वृतः परमार्थेन संवृत्या यदि संसरेत् ।
बुद्धो ऽपि संसरेदेवं ततः किं बोधिचर्यया

9.14

प्रत्ययानामनुच्छेदे मायाप्युच्छिद्यते न हि ।
प्रत्ययानां तु विच्छेदात्संवृत्यापि न संभवः

9.15

प्रत्ययानां तु विच्छेदात् संवृत्यापि न संभवः ।
यदा न भ्रान्तिरप्यस्ति माया केनोपलभ्यते

9.16

यदा मायैव ते नास्ति तदा किमुपलभ्यते ।
चित्तस्यैव स आकारो यद्यप्यन्यो ऽस्ति तत्त्वतः

9.17

चित्तमेव यदा माया तदा किं केन दृश्यते ।
उक्तं च लोकनाथेन चित्तं चित्तं न पश्यति

9.18

न च्छिनत्ति यथात्मानमसिधारा तथा मनः ।
आत्मभावं यथा दीपः संप्रकाशयतीति चेत्

9.19

नैव प्रकाश्यते दीपो यस्मान्न तमसावृतः ।
न हि स्फटिकवन्नीलं नीलत्वे ऽन्यमपेक्षते

9.20

तथा किंचित्परापेक्षमनपेक्षं च दृश्यते ।
अनीलत्वे न तन्नीलं नीलहेतुर्यथेक्ष्यते

9.21

नीलमेव हि को नीलं कुर्यादात्मानमात्मना ।
अनीलत्वे न तन्नीलं कुर्यादात्मानमात्मना

9.22

दीपः प्रकाशत इति ज्ञात्वा ज्ञानेन कथ्यते ।
बुद्धिः प्रकाशत इति ज्ञात्वेदं केन कथ्यते

9.23

प्रकाशा वाप्रकाशा वा यदा दृष्टा न केनचित् ।
वन्ध्यादुहितृलीलेव कथ्यमानापि सा मुधा

9.24

यदि नास्ति स्वसंवित्तिर्विज्ञानं स्मर्यते कथम् ।
अन्यानुभूते संबन्धात् स्मृतिराखुविषं यथा

9.25

प्रत्ययान्तरयुक्तस्य दर्शनात्स्वं प्रकाशते ।
सिद्धाञ्जनविधेर्दृष्टो घटो नैवाञ्जनं भवेत्

9.26

यथा दृष्टं श्रुतं ज्ञातं नैवेह प्रतिषिध्यते ।
सत्यतः कल्पना त्वत्र दुःखहेतुर्निवार्यते

9.27

चित्तादन्या न माया चेन्नाप्यनन्येति कल्प्यते ।
वस्तु चेत्सा कथं नान्यानन्या चेन्नास्ति वस्तुतः

9.28

असत्यपि यथा माया दृश्या द्रष्टृ तथा मनः ।
वस्त्वाश्रयश्चेत्संसारः सो ऽन्यथाकाशवद्भवेत्

9.29

वस्त्वाश्रयेणाभावस्य क्रियावत्त्वं कथं भवेत् ।
असत्सहायमेकं हि चित्तमापद्यते तव

9.30

ग्राह्यमुक्तं यदा चित्तं तदा सर्वे तथागताः ।
एवं च को गुणो लब्धश्चित्तमात्रे ऽपि कल्पिते

9.31

मायोपमत्वे ऽपि ज्ञाते कथं क्लेशो निवर्तते ।
यदा मायास्त्रियां रागस्तत्कर्तुरपि जायते

9.32

अप्रहीणा हि तत्कर्तुर्ज्ञेयसंक्लेशवासना ।
तद्दृष्टिकाले तस्यातो दुर्बला शून्यवासना

9.33

शून्यतावासनाधानाद्धीयते भाववासना ।
किंचिन्नास्तीति चाभ्यासात्सापि पश्चात्प्रहीयते

9.34

यदा न लभ्यते भावो यो नास्तीति प्रकल्प्यते ।
तदा निराश्रयो ऽभावः कथं तिष्ठेन्मतेः पुरः

9.35

यदा न भावो नाभावो मतेः संतिष्ठते पुरः ।
तदान्यगत्यभावेन निरालम्बा प्रशाम्यति

9.36

चिन्तामणिः कल्पतरुर्यथेच्छापरिपूरणः ।
विनेयप्रणिधानाभ्यां जिनबिम्बं तथेक्ष्यते

9.37

यथा गारुडिकः स्तम्भं साधयित्वा विनश्यति ।
स तस्मिंश्चिरनष्टे ऽपि विषादीनुपशामयेत्

9.38

बोधिचर्यानुरूप्येण जिनस्तम्भो ऽपि साधितः ।
करोति सर्वकार्याणि बोधिसत्त्वे ऽपि निर्वृते

9.39

अचित्तके कृता पूजा कथं फलवती भवेत् ।
तुल्यैव पठ्यते यस्मात्तिष्ठतो निर्वृतस्य च

9.40

आगमाच्च फलं तत्र संवृत्या तत्त्वतो ऽपि वा ।
सत्यबुद्धे कृता पूजा सफलेति कथं यथा

9.41

सत्यदर्शनतो मुक्तिः शून्यतादर्शनेन किम् ।
न विनानेन मार्गेण बोधिरित्यागमो यतः

9.42

नन्वसिद्धं महायानं कथं सिद्धस्त्वदागमः ।
यस्मादुभयसिद्धो ऽसौ न सिद्धो ऽसौ तवादितः

9.43

यत्प्रत्यया च तत्रास्था महायाने ऽपि तां कुरु ।
अन्योभयेष्टसत्यत्वे वेदादेरपि सत्यता

9.44

सविवादं महायानमिति चेदागमं त्यज ।
तीर्थिकैः सविवादत्वात्स्वैः परैश्चागमान्तरम्

9.45

शासनं भिक्षुतामूलं भिक्षुतैव च दुःस्थिता ।
सावलम्बनचित्तानां निर्वाणमपि दुःस्थितम्

9.46

क्लेशप्रहाणान्मुक्तिश्चेत्तदनन्तरमस्तु सा ।
दृष्टं च तेषु सामर्थ्यं निष्क्लेशस्यापि कर्मणः

9.47

तृष्णा तावदुपादानं नास्ति चेत्संप्रधार्यते ।
किमक्लिष्टापि तृष्णैषां नास्ति संमोहवत् सती

9.48

वेदनाप्रत्यया तृष्णा वेदनैषां च विद्यते ।
सालम्बनेन चित्तेन स्थातव्यं यत्र तत्र वा

9.49

विना शून्यतया चित्तं बद्धमुत्पद्यते पुनः ।
यथासंज्ञिसमापत्तौ भावयेत्तेन शून्यताम्

9.50

यत्सूत्रेऽवतरेद्वाक्यं तच्चेद्बुद्धोक्तमिष्यते ।
महायानं भवत्सूत्रैः प्रायस्तुल्यं न किं मतम्

9.51

एकेनागम्यमानेन सकलं यदि दोषवत् ।
एकेन सूत्रतुल्येन किं न सर्वं जिनोदितम्

9.52

महाकाश्यपमुख्यैश्च यद्वाक्यं नावगाह्यते ।
तत्त्वयानवबुद्धत्वादग्राह्यं कः करिष्यति

9.53

सक्तित्रासात्त्वनिर्मुक्त्या संसारे सिध्यति स्थितिः ।
मोहेन दुःखिनामर्थे शून्यताया इदं फलम्

9.54

तदेवं शून्यतापक्षे दूषणं नोपपद्यते ।
तस्मान्निर्विचिकित्सेन भावनीयैव शून्यता

9.55

क्लेशज्ञेयावृतितमःप्रतिपक्षो हि शून्यता ।
शीघ्रं सर्वज्ञताकामो न भावयति तां कथम्

9.56

यद्दुःखजननं वस्तु त्रासस्तस्मात्प्रजायताम् ।
शून्यता दुःखशमनी ततः किं जायते भयम्

9.57

यतस्ततो वास्तु भयं यद्यहं नाम किंचन ।
अहमेव च किंचिच्चेद्भयं कस्य भविष्यति

9.58

दन्तकेशनखा नाहं नास्थि नाप्यस्मि शोणितम् ।
न सिंघाणं न च श्लेष्मा न पूयं लसिकापि वा

9.59

नाहं वसा न च स्वेदो न मेदो ऽस्त्राणि नाप्यहम् ।
न चाहमन्त्रनिर्गुण्डी गूथमूत्रमहं न च

9.60

नाहं मांसं न च स्नायु नोष्मा वायुरहं न च ।
न च च्छिद्राण्यहं नापि षड् विज्ञानानि सर्वथा

9.61

शब्दज्ञानं यदि तदा शब्दो गृह्येत सर्वदा ।
ज्ञेयं विना तु किं वेत्ति येन ज्ञानं निरुच्यते

9.62

अजानानं यदि ज्ञानं काष्ठं ज्ञानं प्रसज्यते ।
तेनासंनिहितज्ञेयं ज्ञानं नास्तीति निश्चयः

9.63

तदेव रूपं जानाति तदा किं न शृणोत्यपि ।
शब्दस्यासंनिधानाच्चेत्ततस्तज्ज्ञानमप्यसत्

9.64

शब्दग्रहणरूपं यत्तद्रूपग्रहणं कथम् ।
एकः पिता च पुत्रश्च कल्प्यते न तु तत्त्वतः

9.65

सत्त्वं रजस्तमो वापि न पुत्रो न पिता यतः ।
शब्दग्रहणयुक्तस्तु स्वभावस्तस्य नेक्ष्यते

9.66

तदेवान्येन रूपेण नटवत्सो ऽप्यशाश्वतः ।
स एवान्यस्वभावश्चेदपूर्वेयं तदेकता

9.67

अन्यद्रूपमसत्यं चेन्निजं तद्रूपमुच्यताम् ।
ज्ञानता चेत्ततः सर्वपुंसामैक्यं प्रसज्यते

9.68

चेतनाचेतने चैक्यं तयोर्येनास्तिता समा ।
विशेषश्च यदा मिथ्या कः सादृश्याश्रयस्तदा

9.69

अचेतनश्च नैवाहमाचैतन्यात्पटादिवत् ।
अथ ज्ञश्चेतनायोगादज्ञो नष्टः प्रसज्यते

9.70

अथाविकृत एवात्मा चैतन्येनास्य किं कृतम् ।
अज्ञस्य निष्क्रियस्यैवमाकाशस्यात्मता मता

9.71

न कर्मफलसंबन्धो युक्तश्चेदात्मना विना ।
कर्म कृत्वा विनष्टे हि फलं कस्य भविष्यति

9.72

द्वयोरप्यावयोः सिद्धे भिन्नाधारे क्रियाफले ।
निर्व्यापारश्च तत्रात्मेत्यत्र वादो वृथा ननु

9.73

हेतुमान् फलयोगीति दृश्यते नैष संभवः ।
संतानस्यैक्यमाश्रित्य कर्ता भोक्तेति देशितम्

9.74

अतीतानागतं चित्तं नाहं तद्धि न विद्यते ।
अथोत्पन्नमहं चित्तं नष्टे ऽस्मिन्नास्त्यहं पुनः

9.75

यथैव कदलीस्तम्भो न कश्चिद्भागशः कृतः ।
तथाहमप्यसद्भूतो मृग्यमाणो विचारतः

9.76

यदि सत्त्वो न विद्येत कस्योपरि कृपेति चेत् ।
कार्यार्थमभ्युपेतेन यो मोहेन प्रकल्पितः

9.77

कार्यं कस्य न चेत्सत्त्वः सत्यमीहा तु मोहतः ।
दुःखव्युपशमार्थं तु कार्यमोहो न वार्यते

9.78

दुःखहेतुरहंकार आत्ममोहात्तु वर्धते ।
ततो ऽपि न निवर्त्यश्चेत् वरं नैरात्म्यभावना

9.79

कायो न पादौ न जङ्घा नोरू कायः कटिर्न च ।
नोदरं नाप्ययं पृष्ठं नोरो बाहू न चापि सः

9.80

न हस्तौ नाप्ययं पार्श्वौ न कक्षौ नांसलक्षणः ।
न ग्रीवा न शिरः कायः कायो ऽत्र कतरः पुनः

9.81

यदि सर्वेषु कायो ऽयमेकदेशेन वर्तते ।
अंशा अंशेषु वर्तन्ते स च कुत्र स्वयं स्थितः

9.82

सर्वात्मना चेत्सर्वत्र स्थितः कायः करादिषु ।
कायास्तावन्त एव स्युर्यावन्तस्ते करादयः

9.83

नैवान्तर्न बहिः कायः कथं कायः करादिषु ।
करादिभ्यः पृथङ् नास्ति कथं नु खलु विद्यते

9.84

तन्नास्ति कायो मोहात्तु कायबुद्धिः करादिषु ।
संनिवेशविशेषेण स्थाणौ पुरुषबुद्धिवत्

9.85

यावत्प्रत्ययसामग्री तावत्कायः पुमानिव ।
एवं करादौ सा यावत्तावत्कायो ऽत्र दृश्यते

9.86

एवमङ्गुलिपुञ्जत्वात्पादो ऽपि कतरो भवेत् ।
सो ऽपि पर्वसमूहत्वात् पर्वापि स्वांशभेदतः

9.87

अंशा अप्यणुभेदेन सो ऽप्यणुर्दिग्विभागतः ।
दिग्विभागो निरंशत्वादाकाशं तेन नास्त्यणुः

9.88

एवं स्वप्नोपमे रूपे को रज्येत विचारकः ।
कायश्चैवं यदा नास्ति तदा का स्त्री पुमांश्च कः

9.89

यद्यस्ति दुःखं तत्त्वेन प्रहृष्टान् किं न बाधते ।
शोकाद्यार्ताय मृष्टादि सुखं चेत्किं न रोचते

9.90

बलीयसाभिभूतत्वाद्यदि तन्नानुभूयते ।
वेदनात्वं कथं तस्य यस्य नानुभवात्मता

9.91

अस्ति सूक्ष्मतया दुःखं स्थौल्यं तस्य हृतं ननु ।
तुष्टिमात्रापरा चेत्स्यात्तस्मात् साप्यस्य सूक्ष्मता

9.92

विरुद्धप्रत्ययोत्पत्तौ दुःखस्यानुदयो यदि ।
कल्पनाभिनिवेशो हि वेदनेत्यागतं ननु

9.93

अत एव विचारो ऽयं प्रतिपक्षो ऽस्य भाव्यते ।
विकल्पक्षेत्रसंभूतध्यानाहारा हि योगिनः

9.94

सान्तराविन्द्रियार्थौ चेत्संसर्गः कुत एतयोः ।
निरन्तरत्वे ऽप्येकत्वं कस्य केनास्तु संगतिः

9.95

नाणोरणौ प्रवेशो ऽस्ति निराकाशः समश्च सः ।
अप्रवेशे न मिश्रत्वममिश्रत्वे न संगतिः

9.96

निरंशस्य च संसर्गः कथं नामोपपद्यते ।
संसर्गे च निरंशत्वं यदि दृष्टं निदर्शय

9.97

विज्ञानस्य त्वमूर्तस्य संसर्गो नैव युज्यते ।
समूहस्याप्यवस्तुत्वाद्यथा पूर्वं विचारितम्

9.98

तदेवं स्पर्शनाभावे वेदनासंभवः कुतः ।
किमर्थमयमायासः बाधा कस्य कुतो भवेत्

9.99

यदा न वेदकः कश्चिद्वेदना च न विद्यते ।
तदावस्थामिमां दृष्ट्वा तृष्णे किं न विदीर्यसे

9.100

दृश्यते स्पृश्यते चापि स्वप्नमायोपमात्मना ।
चित्तेन सहजातत्वाद्वेदना तेन नेक्ष्यते

9.101

पूर्वं पश्चाच्च जातेन स्मर्यते नानुभूयते ।
स्वात्मानं नानुभवति न चान्येनानुभूयते

9.102

न चास्ति वेदकः कश्चिद्वेदनातो न तत्त्वतः ।
निरात्मके कलापे ऽस्मिन् क एवं बाध्यते ऽनया

9.103

नेन्द्रियेषु न रूपादौ नान्तराले मनः स्थितम् ।
नाप्यन्तर्न बहिश्चित्तमन्यत्रापि न लभ्यते

9.104

यन्न काये न चान्यत्र न मिश्रं न पृथक् क्वचित् ।
तन्न किंचिदतः सत्त्वाः प्रकृत्या परिनिर्वृताः

9.105

ज्ञेयात्पूर्वं यदि ज्ञानं किमालम्ब्यास्य संभवः ।
ज्ञेयेन सह चेज्ज्ञानं किमालम्ब्यास्य संभवः

9.106

अथ ज्ञेयाद्भवेत् पश्चात् तदा ज्ञानं कुतो भवेत् ।
एवं च सर्वधर्माणामुत्पत्तिर्नावसीयते

9.107

यद्येवं संवृतिर्नास्ति ततः सत्यद्वयं कुतः ।
अथ साप्यन्यसंवृत्या स्यात्सत्त्वो निर्वृतः कुतः

9.108

परचित्तविकल्पो ऽसौ स्वसंवृत्या तु नास्ति सः ।
स पश्चान्नियतः सो ऽस्ति न चेन्नास्त्येव संवृतिः

9.109

कल्पना कल्पितं चेति द्वयमन्योन्यनिश्रितम् ।
यथाप्रसिद्धमाश्रित्य विचारः सर्व उच्यते

9.110

विचारितेन तु यदा विचारेण विचार्यते ।
तदानवस्था तस्यापि विचारस्य विचारणात्

9.111

विचारिते विचार्ये तु विचारस्यास्ति नाश्रयः ।
निराश्रितत्वान्नोदेति तच्च निर्वाणमुच्यते

9.112

यस्य त्वेतद्दूयं सत्यं स एवात्यन्तदुःस्थितः ।
यदि ज्ञेयवशादर्थो ज्ञानास्तित्वे तु का गतिः

9.113

अथ ज्ञेयवशाज्ज्ञानं ज्ञेयास्तित्वे तु का गतिः ।
अथान्योन्यवशात्सत्त्वमभावः स्याद्दूयोरपि

9.114

पिता चेन्न विना पुत्रात्कुतः पुत्रस्य संभवः ।
पुत्राभावे पिता नास्ति तथासत्त्वं तयोर्द्वयोः

9.115

अङ्कुरो जायते बीजाद्बीजं तेनैव सूच्यते ।
ज्ञेयाज्ज्ञानेन जातेन तत्सत्ता किं न गम्यते

9.116

अङ्कुरादन्यतो ज्ञानाद्बीजमस्तीति गम्यते ।
ज्ञानास्तित्वं कुतो ज्ञातं ज्ञेयं यत्तेन गम्यते

9.117

लोकः प्रत्यक्षतस्तावत्सर्वं हेतुमुदीक्षते ।
पद्मनालादिभेदो हि हेतुभेदेन जायते

9.118

किंकृतो हेतुभेदश्चेत् पूर्वहेतुप्रभेदतः ।
कस्माच्चेत्फलदो हेतुः पूर्वहेतुप्रभावतः

9.119

ईश्वरो जगतो हेतुः वद कस्तावदीश्वरः ।
भूतानि चेद्भवत्वेवं नाममात्रे ऽपि किं श्रमः

9.120

अपि त्वनेके ऽनित्याश्च निश्चेष्टा न च देवताः ।
लङ्घ्याश्चाशुचयश्चैव क्ष्मादयो न स ईश्वरः

9.121

नाकाशमीशो ऽचेष्टत्वात् नात्मा पूर्वनिषेधतः ।
अचिन्त्यस्य च कर्तृत्वमप्यचिन्त्यं किमुच्यते

9.122

तेन किं स्रष्टुमिष्टं च आत्मा चेत् नन्वसौ ध्रुवः ।
क्ष्मादिस्वभाव ईशश्च ज्ञानं ज्ञेयादनादि च

9.123

कर्मणः सुखदुःखे च वद किं तेन निर्मितम् ।
हेतोरादिर्न चेदस्ति फलस्यादिः कुतो भवेत्

9.124

कस्मात्सदा न कुरुते न हि सो ऽन्यमपेक्षते ।
तेनाकृतो ऽन्यो नास्त्येव तेनासौ किमपेक्षताम्

9.125

अपेक्षते चेत्सामग्रीं हेतुर्न पुनरीश्वरः ।
नाकर्तुमीशः सामग्र्यां[न कर्तुं तदभावतः]

9.126

करोत्यनिच्छन्नीशश्चेत्परायत्तः प्रसज्यते ।
इच्छन्नपीच्छायत्तः स्यात् कुर्वतः कुत ईशता

9.127

ये ऽपि नित्यानणूनाहुस्ते ऽपि पूर्वं निवारिताः ।
सांख्याः प्रधानमिच्छन्ति नित्यं लोकस्य कारणम्

9.128

सत्त्वं रजस्तमश्चेति गुणा अविषमस्थिताः ।
प्रधानमिति कथ्यन्ते विषमैर्जगदुच्यते

9.129

एकस्य त्रिस्वभावत्वमयुक्तं तेन नास्ति तत् ।
एवं गुणा न विद्यन्ते प्रत्येकं ते ऽपि हि त्रिधा

9.130

गुणाभावे च शब्दादेरस्तित्वमतिदूरतः ।
अचेतने च वस्त्रादौ सुखादेरप्यसंभवः

9.131

तद्धेतुरूपा भावाश्चेन्ननु भावा विचारिताः ।
सुखाद्येव च ते हेतुः न च तस्मात्पटादयः

9.132

पटादेस्तु सुखादि स्यात्तदभावात्सुखाद्यसत् ।
सुखादीनां च नित्यत्वं कदाचिन्नोपलभ्यते

9.133

सत्यामेव सुखव्यक्तौ संवित्तिः किं न गृह्यते ।
तदेव सूक्ष्मतां याति स्थूलं सूक्ष्मं च तत्कथम्

9.134

स्थौल्यं त्यक्त्वा भवेत्सूक्ष्ममनित्ये स्थौल्यसूक्ष्मते ।
सर्वस्य वस्तुनस्तद्वत्किं नानित्यत्वमिष्यते

9.135

न स्थौल्यं चेत्सुखादन्यत् सुखस्यानित्यता स्फुटम् ।
नासदुत्पद्यते किंचिदसत्त्वादिति चेन्मतम्

9.136

व्यक्तस्यासत उत्पत्तिरकामस्यापि ते स्थिता ।
अन्नादो ऽमेध्यभक्षः स्यात् फलं हेतौ यदि स्थितम्

9.137

पटार्घेणैव कर्पासबीजं क्रीत्वा निवस्यताम् ।
मोहाच्चेन्नेक्षते लोकः तत्त्वज्ञस्यापि सा स्थितिः

9.138

लोकस्यापि च तज्ज्ञानमस्ति कस्मान्न पश्यति ।
लोकाप्रमाणतायां चेत् व्यक्तदर्शनमप्यसत्

9.139

प्रमाणमप्रमाणं चेन्ननु तत्प्रमितं मृषा ।
तत्त्वतः शून्यता तस्माद्भावानां नोपपद्यते

9.140

कल्पितं भावमस्पृष्ट्वा तदभावो न गृह्यते ।
तस्माद्भावो मृषा यो हि तस्याभावः स्फुटं मृषा

9.141

तस्मात्स्वप्ने सुते नष्टे स नास्तीति विकल्पना ।
तद्भावकल्पनोत्पादं विबध्नाति मृषा च सा

9.142

तस्मादेवं विचारेण नास्ति किंचिदहेतुतः ।
न च व्यस्तसमस्तेषु प्रत्ययेषु व्यवस्थितम्

9.143

अन्यतो नापि चायातं न तिष्ठति न गच्छति ।
मायातः को विशेषो ऽस्य यन्मूढैः सत्यतः कृतम्

9.144

मायया निर्मितं यच्च हेतुभिर्यच्च निर्मितम् ।
आयाति तत्कुतः कुत्र याति चेति निरूप्यताम्

9.145

यदन्यसंनिधानेन दृष्टं न तदभावतः ।
प्रतिबिम्बसमे तस्मिन् कृत्रिमे सत्यता कथम्

9.146

विद्यमानस्य भावस्य हेतुना किं प्रयोजनम् ।
अथाप्यविद्यमानो ऽसौ हेतुना किं प्रयोजनम्

9.147

नाभावस्य विकारो ऽस्ति हेतुकोटिशतैरपि ।
तदवस्थ कथं भावः को वान्यो भावतां गतः

9.148

नाभावकाले भावश्चेत्कदा भावो भविष्यति ।
नाजातेन हि भावेन सो ऽभावो ऽपगमिष्यति

9.149

न चानपगते ऽभावे भावावसरसंभवः ।
भावश्चाभावतां नैति द्विस्वभावप्रसङ्गतः

9.150

एवं न च निरोधो ऽस्ति न च भावो ऽस्ति सर्वदा ।
अजातमनिरुद्धं च तस्मात्सर्वमिदं जगत्

9.151

स्वप्नोपमास्तु गतयो विचारे कदलीसमाः ।
निर्वृतानिर्वृतानां च विशेषो नास्ति वस्तुतः

9.152

एवं शून्येषु धर्मेषु किं लब्धं किं हृतं भवेत् ।
सत्कृतः परिभूतो वा केन कः संभविष्यति

9.153

कुतः सुखं वा दुःखं वा किं प्रियं वा किमप्रियम् ।
का तृष्णा कुत्र सा तृष्णा मृग्यमाणा स्वभावतः

9.154

विचारे जीवलोकः कः को नामात्र मरिष्यति ।
को भविष्यति को भूतः को बन्धुः कस्य कः सुहृत्

9.155

सर्वमाकाशसंकाशं परिगृह्णन्तु मद्विधाः ।
प्रकुप्यन्ति प्रहृष्यन्ति कलहोत्सवहेतुभिः

9.156

शोकायासैर्विषादैश्च मिथश्छेदनभेदनैः ।
यापयन्ति सुकृच्छ्रेण पापैरात्मसुखेच्छवः

9.157

मृताः पतन्त्यपायेषु दीर्घतीव्रव्यथेषु च ।
आगत्यागत्य सुगतिं भूत्वा भूत्वा सुखोचिताः

9.158

भवे बहुप्रपातश्च तत्र चातत्त्वमीदृशम् ।
तत्रान्योन्यविरोधश्च न भवेत्तत्त्वमीदृशम्

9.159

तत्र चानुपमास्तीव्रा अनन्ता दुःखसागराः ।
तत्रैवमल्पबलता तत्राप्यल्पत्वमायुषः

9.160

तत्रापि जीवितारोग्यव्यापारेइः क्षुत्क्लमश्रमैः ।
निद्रयोपद्रवैर्बालसंसर्गैर्निष्फलैस्तथा

9.161

वृथैवायुर्वहत्याशु विवेकस्तत्र दुर्लभः ।
तत्राप्यभ्यस्तविक्षेपनिवारणगतिः कुतः

9.162

तत्रापि मारो यतते महापायप्रपातने ।
तत्रासन्मार्गबाहुल्याद्विचिकित्सा च दुर्जया

9.163

पुनश्च क्षणदौर्लभ्यं बुद्धोत्पादो ऽतिदुर्लभः ।
क्लेशौघो दुर्निवारश्चेत्यहो दुःखपरंपरा

9.164

अहो बतातिशोच्यत्वमेषां दुःखौघवर्तिनाम् ।
ये नेक्षन्ते स्वदौःस्थित्यमेवमप्यतिदुःस्थिताः

9.165

स्नात्वा स्नात्वा यथा कश्चिद्विशेद्वह्निं मुहुर्मुहुः ।
स्वसौस्थित्यं च मन्यन्ते एवमप्यतिदुःस्थिताः

9.166

अजरामरलीलानामेवं विहरतां सताम् ।
आयास्यन्त्यापदो घोराः कृत्वा मरणमग्रतः

9.167

एवं दुःखाग्नितप्तानां शान्तिं कुर्यामहं कदा ।
पुण्यमेघसमुद्भूतैः सुखोपकरणैः स्वकैः

9.168

कदोपलम्भदृष्टिभ्यो देशयिष्यामि शून्यताम् ।
संवृत्यानुपलम्भेन पुण्यसंभारमादरात्

मूल पाठ: Bodhicaryāvatāra · Edition: P. L. Vaidya: Bodhicaryavatara of Santideva. Darbhanga: Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc