भाषा

ENहिગુ
ग्रंथ पाठ

बोधिचर्यावतार (अन्य संस्करण) · अध्याय 10

10.1

इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां प्रज्ञापारमितापरिच्छेदो नवमः ॥
10 परिणामनापरिच्छेदो दशमः ।
बोधिचर्यावतारं मे यद्विचिन्तयतः शुभम् ।
तेन सर्वे जनाः सन्तु बोधिचर्याविभूषणाः

10.2

सर्वासु दिक्षु यावन्तः कायचित्तव्यथातुराः ।
ते प्राप्नुवन्तु मत्पुण्यैः सुखप्रामोद्यसागरान्

10.3

आसंसारं सुखज्यानिर्मा भूत्तेषां कदाचन ।
बोधिसत्त्वसुखं प्राप्तं भवत्वविरतं जगत्

10.4

यावन्तो नरकाः केचिद्विद्यन्ते लोकधातुषु ।
सुखावतीसुखामोद्यैर्मोदन्तां तेषु देहिनः

10.5

शीतार्ताः प्राप्नुवन्तूष्णमुष्णार्ताः सन्तु शीतलाः ।
बोधिसत्त्वमहामेघसंभवैर्जलसागरैः

10.6

असिपत्रवनं तेषां स्यान्नन्दनवनद्युति ।
कूटशाल्मलिवृक्षाश्च जायन्तां कल्पपादपाः

10.7

कादम्बकारण्डवचक्रवाकहंसादिकोलाहलरम्यशोभैः ।
सरोभिरुद्दामसरोजगन्धैर् भवन्तु हृद्या नरकप्रदेशाः

10.8

सो ऽङ्गारराशिर्मणिराशिरस्तु तप्ता च भूः स्फाटिककुट्टिमं स्यात् ।
भवन्तु संघातमहीधराश्च पूजाविमानाः सुगतप्रपूर्णाः

10.9

अङ्गारतप्तोपलशस्त्रवृष्टिर् अद्यप्रभृत्यस्तु च पुष्पवृष्टिः ।
तच्छस्त्रयुद्धं च परस्परेण क्रीडार्थमद्यास्तु च पुष्पयुद्धम्

10.10

पतितसकलमांसाः कुन्दवर्णास्थिदेहा दहनसमजलायां वैतरण्यां निमग्नाः ।
मम कुशलबलेन प्राप्तदिव्यात्मभावाः सह सुरवनिताभिः सन्तु मन्दाकिनीस्थाः

10.11

त्रस्ताः पश्यन्त्वकस्मादिह यमपुरुषाः काकगृध्राश्च घोरा ध्वान्तं
ध्वस्तं समन्तात्सुखरतिजननी कस्य सौम्या प्रभेयम् ।
इत्यूर्ध्वं प्रेक्षमाणा गगनतलगतं वज्रपाणिं ज्वलन्तं
दृष्ट्वा प्रामोद्यवेगाद्व्यपगतदुरिता यान्तु तेनैव सार्धम्

10.12

पतति कमलवृष्टिर्गन्धपानीयमिश्राच्छमिति (?)नरकवह्निं दृश्यते नाशयन्ती ।
किमिदमिति सुखेनाह्लादितानामकस्माद् भवतु कमलपाणेर्दर्शनं नारकाणाम्

10.13

आयातायात शीघ्रं भयमपनयत भ्रातरो जीविताः स्मः
संप्राप्तो ऽस्माकमेष ज्वलदभयकरः को ऽपि चीरीकुमारः ।
सर्वं यस्यानुभावाद्व्यसनमपगतं प्रीतिवेगाः प्रवृत्ताः
जातं संबोधिचित्तं सकलजनपरित्राणमाता दया च

10.14

पश्यन्त्वेनं भवन्तः सुरशतमुकुटैरर्च्यमानाङ्घ्रिपद्मं
कारूण्यादार्द्रदृष्टिं शिरसि निपतितानेकपुष्पौघवृष्टिम् ।
कूटागारैर्मनोज्ञैः स्तुतिमुखरसुरस्त्रीसहस्रोपगीतै -
र्दृष्ट्वाग्रे मञ्जुघोषं भवतु कलकलः सांप्रतं नारकाणाम्

10.15

इति मत्कुशलैः समन्तभद्रप्रमुखानावृतबोधिसत्त्वमेघान् ।
सुखशीतसुगन्धवातवृष्टीन् अभिनन्दन्तु विलोक्य नारकास्ते

10.16

शाम्यन्तु वेदनास्तीव्रा नारकाणां भयानि च ।
दुर्गतिभ्यो विमुच्यन्तां सर्वदुर्गतिवासिनः

10.17

अन्योन्यभक्षणभयं तिरश्चामपगच्छतु ।
भवन्तु सुखिनः प्रेता यथोत्तरकुरौ नराः

10.18

संतर्प्यन्तां प्रेताः स्नाप्यन्तां शीतला भवन्तु सदा ।
आर्यावलोकितेश्वरकरगलितक्षीरधाराभिः

10.19

अन्धाः पश्यन्तु रूपाणि शृण्वन्तु बधिराः सदा ।
गर्भिण्यश्च प्रसूयन्तां मायादेवीव निर्व्यथाः

10.20

वस्त्रभोजनपानीयं स्रक्चन्दनविभूषणम् ।
मनोभिलषितं सर्वं लभन्तां हितसंहितम्

10.21

भीताश्च निर्भयाः सन्तु शोकार्ताः प्रीतिलाभिनः ।
उद्विग्नाश्च निरुद्वेगा धृतिमन्तो भवन्तु च

10.22

आरोग्यं रोगिणामस्तु मुच्यन्तां सर्वबन्धनात् ।
दुर्बला बलिनः सन्तु स्निग्धचित्ताः परस्परम्

10.23

सर्वा दिशः शिवाः सन्तु सर्वेषां पथिवर्तिनाम् ।
येन कार्येण गच्छन्ति तदुपायेन सिध्यतु

10.24

नौयानयात्रारूढाश्च सन्तु सिद्धमनोरथाः ।
क्षेमेण कूलमासाद्य रमन्तां सह बन्धुभिः

10.25

कान्तारोन्मार्गपतिता लभन्तां सार्थसंगतिम् ।
अश्रमेण च गच्छन्तु चौरव्याघ्रादिनिर्भयाः

10.26

सुप्तमत्तप्रमत्तानां व्याध्यारण्यादिसंकटे ।
अनाथाबालवृद्धानां रक्षां कुर्वन्तु देवताः

10.27

सर्वाक्षणविनिर्मुक्ताः श्रद्धाप्रज्ञाकृपान्विताः ।
आकाराचारसंपन्नाः सन्तु जातिस्मराः सदा

10.28

भवन्त्वक्षयकोशाश्च यावद्गगनगञ्जवत् ।
निर्द्वन्द्वा निरुपायासाः सन्तु स्वाधीनवृत्तयः

10.29

अल्पौजसश्च ये सत्त्वास्ते भवन्तु महौजसः ।
भवन्तु रूपसंपन्ना ये विरूपास्तपस्विनः

10.30

याः काश्चन स्त्रियो लोके पुरुषत्वं व्रजन्तु ताः ।
प्राप्नुवन्तूच्चतां नीचा हतमाना भवन्तु च

10.31

अनेन मम पुण्येन सर्वसत्त्वा अशेषतः ।
विरम्य सर्वपापेभ्यः कुर्वन्तु कुशलं सदा

10.32

बोधिचित्ताविरहिता बोधिचर्यापरायणाः ।
बुद्धैः परिगृहीताश्च मारकर्मविवर्जिताः

10.33

अप्रमेयायुषश्चैव सर्वसत्त्वा भवन्तु ते ।
नित्यं जीवन्तु सुखिता मृत्युशब्दो ऽपि नश्यतु

10.34

रम्याः कल्पद्रुमोद्यानैर्दिशः सर्वा भवन्तु च ।
बुद्धबुद्धात्मजाकीर्णा धर्मध्वनिमनोहरैः

10.35

शर्करादिव्यपेता च समा पाणितलोपमा ।
मृद्वी च वैडूर्यमयी भूमिः सर्वत्र तिष्ठतु

10.36

बोधिसत्त्वमहापर्षन्मण्डलानि समन्ततः ।
निषीदन्तु स्वशोभाभिर्मण्डयन्तु महीतलम्

10.37

पक्षिभ्यः सर्ववृक्षेभ्यो रश्मिभ्यो गगनादपि ।
धर्मध्वनिरविश्रामं श्रूयतां सर्वदेहिभिः

10.38

बुद्धबुद्धसुतैर्नित्यं लभन्तां ते समागमम् ।
पूजामेघैरनन्तैश्च पूजयन्तु जगद्गुरुम्

10.39

देवो वर्षतु कालेन सस्यसंपत्तिरस्तु च ।
स्फीतो भवतु लोकश्च राजा भवतु धार्मिकः

10.40

शक्ता भवन्तु चौषध्यो मन्त्राः सिध्यन्तु जापिनाम् ।
भवन्तु करुणाविष्टा डाकिनीराक्षसादयः

10.41

मा कश्चिद्दुःखितः सत्त्वो मा पापी मा च रोगितः ।
मा हीनः परिभूतो वा मा भूत्कश्चिच्च दुर्मनाः

10.42

पाठस्वाध्यायकलिला विहाराः सन्तु सुस्थिताः ।
नित्यं स्यात्संघसामग्री संघकार्यं च सिध्यतु

10.43

विवेकलाभिनः सन्तुः शिक्षाकामाश्च भिक्षवः ।
कर्मण्यचित्ता ध्यायन्तु सर्वविक्षेपवर्जिताः

10.44

लाभिन्यः सन्तु भिक्षुण्यः कलहायासवर्जिताः ।
भवन्त्वखण्डशीलाश्च सर्वे प्रव्रजितास्तथा

10.45

दुःशीलाः सन्तु संविग्नाः पापक्षयरताः सदा ।
सुगतेर्लाभिनः सन्तु तत्र चाखण्डितव्रताः

10.46

पण्डिताः संस्कृताः सन्तु लाभिनः पैण्डपातिकाः ।
भवन्तु शुद्धसंतानाः सर्वदिक्ख्यातकीर्तयः

10.47

अभुक्त्वापायिकं दुःखं विना दुष्करचर्यया ।
दिव्येनैकेन कायेन जगद्बुद्धत्वमाप्नुयात्

10.48

पूज्यन्तां सर्वसंबुद्धाः सर्वसत्त्वैरनेकधा ।
अचिन्त्यबौद्धसौख्येन सुखिनः सन्तु भूयसा

10.49

सिध्यन्तु बोधिसत्त्वानां जगदर्थं मनोरथाः ।
यच्चिन्तयन्ति ते नाथास्तत्सत्त्वानां समृध्यतु

10.50

प्रत्येकबुद्धाः सुखिनो भवन्तु श्रावकास्तथा ।
देवासुरनरैर्नित्यं पूज्यमानाः सगौरवैः

10.51

जातिस्मरत्वं प्रव्रज्यामहं च प्राप्नुयां सदा ।
यावत्प्रमुदिताभूमिं मञ्जुघोषपरिग्रहात्

10.52

येन तेनासनेनाहं यापयेयं बलान्वितः ।
विवेकवाससामग्रीं प्राप्नुयां सर्वजातिषु

10.53

यदा च द्रष्टुकामः स्यां प्रष्टुकामश्च किंचन ।
तमेव नाथं पश्येयं मञ्जुनाथमविघ्नतः

10.54

दशदिग्व्योमपर्यन्तसर्वसत्त्वार्थसाधने ।
यथा चरति मञ्जुश्रीः सैव चर्या भवेन्मम

10.55

आकाशस्य स्थितिर्यावद्यावच्च जगतः स्थितिः ।
तावन्मम स्थितिर्भूयाज्जगद्दुःखानि निघ्नतः

10.56

यत्किंचिज्जगतो दुःखं तत्सर्वं मयि पच्यताम् ।
बोधिसत्त्वशुभैः सर्वैर्जगत्सुखितमस्तु च

10.57

जगद्दुःखैकभैषज्यं सर्वसंपत्सुखाकरम् ।
लाभसत्कारसहितं चिरं तिष्ठतु शासनम्

10.58

मञ्जुघोषं नमस्यामि यत्प्रसादान्मतिः शुभे ।
कल्याणमित्रं वन्दे ऽहं यत्प्रसादाच्च वर्धते

मूल पाठ: Bodhicaryāvatāra · Edition: P. L. Vaidya: Bodhicaryavatara of Santideva. Darbhanga: Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc