भाषा

ENहिગુ
ग्रंथ पाठ

बोधिचर्यावतार (अन्य संस्करण) · अध्याय 4

4.1

इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः ॥
4 बोधिचित्ताप्रमादो नाम चतुर्थः परिच्छेदः ।
एवं गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः ।
शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः

4.2

सहसा यत्समारब्धं सम्यग् यदविचारितम् ।
तत्र कुर्यान्न वेत्येवं प्रतिज्ञायापि युज्यते

4.3

विचारितं तु यद्बुद्धैर्महाप्राज्ञैश्च तत्सुतैः ।
मयापि च यथाशक्ति तत्र किं परिलम्ब्यते

4.4

यदि चैवं प्रतिज्ञाय साधयेयं न कर्मणा ।
एतां सर्वां विसंवाद्य का गतिर्मे भविष्यति

4.5

मनसा चिन्तयित्वापि यो न दद्यात्पुनर्नरः ।
स प्रेतो भवतीत्युक्तमल्पमात्रे ऽपि वस्तुनि

4.6

किमुतानुत्तरं सौख्यमुच्चैरुद्धुष्य भावतः ।
जगत्सर्वं विसंवाद्य का गतिर्मे भविष्यति

4.7

वेत्ति सर्वज्ञ एवैतामचिन्त्यां कर्मणो गतिम् ।
यद्बोधिचित्तत्यागे ऽपि मोचयत्येवं तां नरान्

4.8

बोधिसत्त्वस्य तेनैवं सर्वापत्तिर्गरीयसी ।
यस्मादापद्यमानो ऽसौ सर्वसत्त्वार्थहानिकृत्

4.9

यो ऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति ।
तस्य दुर्गतिपर्यन्तो नास्ति सत्त्वार्थघातिनः

4.10

एकस्यापि हि सत्त्वस्य हितं हत्वा हतो भवेत् ।
अशेषाकाशपर्यन्तवासिनां किमु देहिनाम्

4.11

एवमापत्तिबलतो बोधिचित्तबलेन च ।
दोलायमानः संसारे भूमिप्राप्तौ चिरायते

4.12

तस्माद्यथाप्रतिज्ञातं साधनीयं मयादरात् ।
नाद्य चेत्क्रियते यत्नस्तलेनास्मि तलं गतः

4.13

अप्रमेया गता बुद्धाः सर्वसत्त्वगवेषकाः ।
नैषामहं स्वदोषेण चिकित्सागोचरं गतः

4.14

अद्यापि चेत्तथैव स्यां यथैवाहं पुनः पुनः ।
दुर्गतिव्याधिमरणच्छेदभेदाद्यवाप्नुयाम्

4.15

कदा तथागतोत्पादं श्रद्धां मानुष्यमेव च ।
कुशलाभ्यासयोग्यत्वमेवं लप्स्ये ऽतिदुर्लभम्

4.16

आरोग्यं दिवसं चेदं सभक्तं निरुपद्रवम् ।
आयुःक्षणं विसंवादि कायोपाचितकोपमः

4.17

न हीदृशैर्मच्चरितैर्मानुष्यं लभ्यते पुनः ।
अलभ्यमाने मानुष्ये पापमेव कुतः शुभम्

4.18

यदा कुशलयोग्यो ऽपि कुशलं न करोम्यहम् ।
अपायदुःखैः संमूढः किं करिष्याम्यहं तदा

4.19

अकुर्वतश्च कुशलं पापं चाप्युपचिन्वतः ।
हतः सुगतिशब्दो ऽपि कल्पकोटिशतैरपि

4.20

अत एवाह भगवान् - मानुष्यमतिदुर्लभम् ।
महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम्

4.21

एकक्षणकृतात् पापादवीचौ कल्पमास्यते ।
अनादिकालोपचितात् पापात् का सुगतौ कथा

4.22

न च तन्मात्रमेवासौ वेदयित्वा विमुच्यते ।
तस्मात्तद्वेदयन्नेव पापमन्यत् प्रसूयते

4.23

नातः परा वञ्चनास्ति न च मोहो ऽस्त्यतः परः ।
यदीदृशं क्षणं प्राप्य नाभ्यस्तं कुशलं मया

4.24

यदि चैवं विमृष्यामि पुनः सीदामि मोहितः ।
शोचिष्यामि चिरं भूयो यमदूतैः प्रचोदितः

4.25

चिरं धक्ष्यति मे कायं नारकाग्निः सुदुःसहः ।
पश्चात्तापानलश्चित्तं चिरं धक्ष्यत्यशिक्षितम्

4.26

कथंचिदपि संप्राप्तो हितभूमिं सुदुर्लभाम् ।
जानन्नपि च नीये ऽहं तानेव नरकान् पुनः

4.27

अत्र मे चेतना नास्ति मन्त्रैरिव विमोहितः ।
न जाने केन मुह्यामि को ऽत्रान्तर्मम तिष्ठति

4.28

हस्तपादादिरहितास्तृष्णाद्वेषादिशत्रवः ।
न शूरा न च ते प्राज्ञाः कथं दासीकृतो ऽस्मि तैः

4.29

मच्चित्तावस्थिता एव घ्नन्ति मामेव सुस्थिताः ।
तत्राप्यहं न कुप्यामि धिगस्थानसहिष्णुताम्

4.30

सर्वे देवा मनुष्याश्च यदि स्युर्मम शत्रवः ।
ते ऽपि नावीचिकं वह्निं समुदानयितुं क्षमाः

4.31

मेरोरपि यदासङ्गान्न भस्माप्युपलभ्यते ।
क्षणात् क्षिपन्ति मां तत्र बलिनः क्लेशशत्रवः

4.32

न हि सर्वान्यशत्रूणां दीर्घमायुरपीदृशम् ।
अनाद्यन्तं महादीर्घं यन्मम क्लेशवैरिणाम्

4.33

सर्वे हिताय कल्पन्ते आनुकूल्येन सेविताः ।
सेव्यमानास्त्वमी क्लेशाः सुतरां दुःखकारकाः

4.34

इति संततदीर्घवैरिषु व्यसनौघप्रसवैकहेतुषु ।
हृदये निवसत्सु निर्भयं मम संसाररतिः कथं भवेत्

4.35

भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः ।
मतिवेश्मनि लोभपञ्जरे यदि तिष्ठन्ति कुतः सुखं मम

4.36

तस्मान्न तावदहमत्र धुरं क्षिपामि यावन्न शत्रव इमे निहताः समक्षम् ।
स्वल्पे ऽपि तावदपकारिणि बद्धरोषा मानोन्नतास्तमनिहत्य न यान्ति निद्राम्

4.37

प्रकृतिमरणदुःखितान्धकारान् । रणशिरसि प्रसभं निहन्तुमुग्राः ।
अगणितशरशक्तिघातदुःखा न विमुखतामुपयान्त्यसाधयित्वा

4.38

किमुत सततसर्वदुःखहेतून् प्रकृतिरिपूनुपहन्तुमुद्यतस्य ।
भवति मम विषाददैन्यमद्य व्यसनशतैरपि केन हेतुना वै

4.39

अकारणेनैव रिपुक्षतानि गात्रेष्वलंकारवदुद्वहन्ति ।
महार्थसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मान्मम बाधकानि

4.40

स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः ।
शीतातपादिव्यसनं सहन्ते जगद्धितार्थं न कथं सहे ऽहम्

4.41

दशदिग्व्योमपर्यन्तजगत्क्लेशविमोक्षणे ।
प्रतिज्ञाय मदात्मापि न क्लेशेभ्यो विमोचितः

4.42

आत्मप्रमाणमज्ञात्वा ब्रुवन्नुन्मत्तकस्तदा ।
अनिवर्ती भविष्यामि तस्मात्क्लेशवधे सदा

4.43

अत्र ग्रही भविष्यामि बद्धवैरश्च विग्रही ।
अन्यत्र तद्विधात्क्लेशात् क्लेशघातानुबन्धिनः

4.44

गलन्त्वन्त्राणि मे कामं शिरः पततु नाम मे ।
न त्वेवावनतिं यामि सर्वथा क्लेशवैरिणाम्

4.45

निर्वासितस्यापि तु नाम शत्रोर्देशान्तरे स्थानपरिग्रहः स्यात् ।
यतः पुनः संभृतशक्तिरेति न क्लेशशत्रोर्गतिरीदृशी तु

4.46

क्वासौ यायान्मन्मनःस्थो निरस्तः स्थित्वा यस्मिन् मद्वधार्थं यतेत ।
नोद्योगो मे केवलं मन्दबुद्धेः क्लेशाः प्रज्ञादृष्टिसाध्या वराकाः

4.47

न क्लेशा विषयेषु नेन्द्रियगणे नाप्यन्तराले स्थिता
नातो ऽन्यत्र कुह स्थिताः पुनरमी मथ्नन्ति कृत्स्नं जगत् ।
मायैवेयमतो विमुञ्च हृदयं त्रासं भजस्वोद्यमं
प्रज्ञार्थं किमकाण्ड एव नरकेष्वात्मानमाबाधसे

4.48

एवं विनिश्चित्य करोमि यत्नं यथोक्तशिक्षाप्रतिपत्तिहेतोः ।
वैद्योपदेशाच्चलतः कुतो ऽस्ति भैषज्यसाध्यस्य निरामयत्वम्

मूल पाठ: Bodhicaryāvatāra · Edition: P. L. Vaidya: Bodhicaryavatara of Santideva. Darbhanga: Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc