बोधसार · अध्याय 9
[प्. 95-]
समन्वयसरस्वती
अवगाह्या विशेषेण समन्वयसरस्वती ।
जायेत मतभेदाख्यपङ्कप्रक्षालनं यया
पदं पदार्थो वाक्यार्थस्तत्वानि मनसो यमः ।
महावाक्यार्थविज्ञानं साधनानि क्रमेण हि
सर्वेषां तत्र तन्त्राणामुपयोगो यथायथम् ।
वदामि तत्समासेन सर्वमेव यथातथम्
जायते शब्दशास्त्रेण पदव्युत्पत्तिरुत्तमा ।
व्युत्पत्तिश्च पदार्थानां न्यायवैशेषिकोक्तिभिः
मीमांसया च वाक्यार्थव्युत्पत्तिः परिनिष्ठिता ।
व्यक्तिः सांख्येन तत्त्वानां योगेन मनसो यमः
महावाक्यार्थविज्ञानं वेदान्तैर्ब्रह्मनिष्ठया ।
इत्येवं सर्वतन्त्राणां ब्रह्मण्येव समन्वयः
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0