भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 10

10.1

[प्. 98-]
अविरोधबोधः
प्रसङ्गादविरोधस्य बोधोऽप्यत्र निरूप्यते ।
व्यवहारे द्वैतसत्वं द्वैताद्वैतमते समम्

10.2

अद्वैतकल्पितत्वं चाविरोधोऽतो मतद्वये ।
विवदन्ति मुहुर्वादरसैस्तद्विवदन्तु ते

10.3

यमास्त्वहिंसासत्याद्या नियमाः शुचितादयः ।
सुखासने च संस्थानं प्रत्याहारस्तु सर्वतः

10.4

धारणा च तथा ध्यानं समाधानं च चेतसः ।
योगाङ्गसप्तकं त्वेतत्सर्वेषामपि संमतम्

10.5

लये मन्त्रे हठे राज्ञि भक्तौ सांख्ये हरेर्मते ।
मतैक्यमस्ति सर्वेषां ये बुधा मोक्षमार्गगाः

10.6

हठिनामधिकस्त्वेकः प्राणायामपरिश्रमः ।
प्राणायामे मनःस्थैर्यं स तु कस्य न संमतः

10.7

विमुक्तिर्वादिनां तस्मान्मतभेदो न कश्चन ।
कश्चित्कश्चिन्मते भेदस्त्वस्ति वेदान्तिनामपि

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc