भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 8

8.1

[प्. 92-]
सत्संगसुधा
सत्संगसुधया तात मन आनन्दितं यदा ।
निश्चेतव्यं तदा मोहान्मम मुक्तिर्भविष्यति

8.2

साधनानां हि सर्वेषां वरिष्ठा साधुसङ्गतिः ।
एतया सिद्धया सिद्धं सर्वमेव हि साधनम्

8.3

शश्वदीश्वरभक्ता ये विरक्ताः समदर्शनाः ।
साधवः सेवितव्यास्ते मोक्षशास्त्रविशारदाः

8.4

येषां दर्शनमात्रेण मोक्षे श्रद्धा विवर्धते ।
येषां च वाग्विलासेन संशयो विनिवर्त्तते

8.5

उपक्रमादितात्पर्यलिङ्गैस्तात्पर्यनिर्णयः ।
विशेषसामान्यतया शास्त्रार्थानां व्यवस्थितिः

8.6

वेदशास्त्राविरोधेन मोक्षमार्गप्रवेशनम् ।
संप्रदायपरिज्ञानं मतभेदविनिर्णयः

8.7

पूर्वोत्तराभ्यां पक्षाभ्यां येषां वाक्यादवाप्यते ।
ज्ञानिनः कर्णधारास्ते सेवितव्या हि साधवः

8.8

तथा च गीता
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc