बोधसार · अध्याय 7
[प्. 88-]
अधिकारपरीक्षा ।
धर्मा बहुविधाः प्रोक्ताः शास्त्रे धर्माधिकारिणाम् ।
तत्र तीब्रा मुमुक्षैव मोक्षे मुख्याधिकारिता
ज्योतिष्टोमे स्वर्गकामो विवाहे पुत्रकामवान् ।
वाणिज्ये लोभवान्मोक्षे मुमुक्षुरधिकारवान्
तीव्रा मुमुक्षा यद्यस्ति प्रज्ञामान्द्यं च वर्त्तते ।
सच्छास्त्रविद्वच्चर्चाभिः प्रथमं तन्निवारयेत्
वेदे नास्त्यधिकारोऽस्य मुमुक्षा यदि वर्त्तते ।
विचारस्तेन कर्त्तव्यः पुराणश्रवणादिना
यदेव वेदे कथितं पुराणेऽपि तदेव हि ।
न तु वेदाक्षरं श्राव्यमिति भाष्ये विनिर्णयः
यथाऽधिकारविहितं कर्म सिध्यति चान्यथा ।
कार्यसिद्धिर्न जायेत प्रत्यवायो महान्भवेत्
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0