भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 6

6.1

[प्. 85-]
रागत्यागनिर्णयः
न विरक्ता धनैस्त्यक्ता न विरक्ता दिगम्बराः ।
विशेषरक्ताः स्वपदे ते विरक्ता मता मम

6.2

चौरस्त्यजन्ति गेहं स्वं भयेनैव न बोधतः ।
जारास्त्यजन्ति गेहं स्वं कामेनैव न बोधतः

6.3

क्रुद्धस्त्यजति गेहं स्वं प्रतिवादिविरोधतः ।
रुद्धस्त्यजति गेहं स्वं रोधेनैव न बोधतः

6.4

निःसङ्गतासुखं प्राप्ताः कया चिद्बोधलीलया ।
गृहं त्यजन्ति मुनयो गृहस्था वावने स्थिताः

6.5

तदुक्तम् ।
मूढः किं त्यजतु प्रमत्तमनसस्त्यागेन वा किं फलं ।
विज्ञः कर्म करोतु वा न कुरुतां त्यागेऽवलिप्तो न यत् ।
इत्येवं कृतनिश्चयः प्रवचनैरद्वैतविद्यावतां ।
रागत्यागनिरादरो मुनिजनः पारे गिरां खेलति

6.6

इत्ययं योगयुक्तानां रागत्यागविनिर्णयः ।
त्यजतैव हि तज्ज्ञेयमिति वेदान्तनिर्णयात्

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc