बोधसार · अध्याय 52
[प्. 961-]
बोधसारोपासना
गुरुर्मे बोधसारोऽयं यतो ज्ञानप्रदो मम ।
शिष्यो मे बोधसारोऽयं यमुद्दिश्य वदाम्यहम्
स्वामी मे बोधसारोऽयं मां पालयति यः सदा ।
सेवको बोधसारो मे मम सेवां करोति यः
सुहृन्मे बोधसारोऽयं सर्वं जानाति मद्गतम् ।
सखा मे बोधसारोऽयं यस्मिन्दृष्टे सुखं मम
गृहं मे बोधसारोऽयं यत्रैव निवासाम्यहम् ।
आरामो बोधसारो मे विहारो यत्र मामकः
कान्ता मे बोधसारोऽयं यमालिङ्ग्य स्वपाम्यहम् ।
मनो मे बोधसारोऽयं मननं येन जायते
बुद्धिर्मे बोधसारोऽयं परमं बुध्यते यया ।
चित्तं मे बोधसारोऽयं येन चेतामि तत्पदे
अहङ्कारो बोधसारो बोधसारोऽहमेव हि ।
शरीरं बोधसारो मे ममता यत्र भूयसी
प्राणो मे बोधसारोऽयं ममता यत्र भूयसी ।
जीवो मे बोधसारोऽयं येन जीवाम्यहं सदा
ईश्वरो बोधसारो मे यतो मुक्तिप्रदो मम ।
बोधसारः परं ब्रह्म बोधसारात्परं नहि
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0