बोधसार · अध्याय 48
[प्. 776-]
नरहरिषट्कम्
नाम्नैव नो नरहरेर्हि विदीर्यतेऽसौ दुष्टो हिरण्यकशिपुर्नितरां बलिष्ठः ।
तस्मात्त्वया नृहरिरूपधरेण चित्त मोहो हिरण्यकशिपुस्तु विदारणीयः
इन्द्रस्य राज्यमपि सम्प्रतिलभ्य लुब्धस्तृष्णामयो निजरिपुर्न जगाम तृप्तिम् ।
अस्याधुना प्रलय एव हितं ममेति प्रज्ञात्मना नृहरिणा प्रलयं प्रणीतः
वक्षो हिरण्यकशिपोः किल वज्रसारं शस्त्राणि तत्र सकलान्यपि कुण्ठितानि ।
तादृक्पुनस्तव नखैर्नृहरे विदीर्णमत्यद्भुतो भवत एष नखप्रभावः
अध्यात्मदृष्टि हृदयं हृदयाग्रसंस्थं तेजोमयोऽरिमनयन्नृहरिस्तमस्तम् ।
कष्टं समस्तमपि नष्टदशां प्रयातं प्रह्लाद एव परमं महिमानमाप
नान्तस्तु नापि च बहिर्न दिवा न रात्रौ नार्द्रेण शुष्कवपुषा च न मार्यते यः ।
नायं नरेण न मृगेण निपातनीयस्तादृग्रिपुं नरहरिर्हतवान्विचित्रम्
सर्वत्रैव सदा स्थितो नरहरिर्यत्स्थावरे जङ्गमे दैवाद्व्यक्तिमुपागतः पुनरसौ पाषाणपिण्डेऽपि यत् ।
नास्तित्वं गमितो हिरण्यकशिपुस्तादृक्प्रपञ्चाश्रयः तत्सर्वं किल कौतुकं निजजनप्रह्लादहेतोः कृतम्
जित्वेन्द्रियरिपुषट्कं हृदि गायति वारषट्कं चेत् ।
एतन्नरहरिषट्कं विकारषट्कं निवारयति
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0