भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 47

47.1

[प्. 728-]
ज्ञानिगजगर्जनम् ।
आयान्ति तत्र विलसन्ति वसन्ति च द्रगुड्डीय यान्ति च कुलानि विहङ्गमानाम्।
भावास्तथा मयि समा विषमा विचित्रा देवालयाग्रमिव केवलमस्मि नित्यः

47.2

उन्मज्ज्य मज्जति जगन्मयि दैवयोगादुच्चावचा न गणिता अपि ते तरङ्गाः ।
निष्ठां गतः स्वमहिमन्यचलप्रतिष्ठे तिष्ठामि सागर इव स्वरसादपारः

47.3

जन्मादयो वनचराः प्रवहन्तु कामं घर्षन्तु कुम्भमभितो मयि वृत्तिनागाः ।
अस्मिन्युगे परयुगे च युगान्तरे वा तिष्ठामि निश्चलतया गिरिराजतुल्यः

47.4

नीचैर्निपातितविमोहमहीधरस्य विन्ध्यस्य मूर्धनि पदं विनिधाय सम्यक् ।
इष्टां दिशं प्रतिगतः पुनरागतो न स्वच्छन्दमेव विहरामि तदस्म्यगस्त्यः

47.5

दृष्टो मयाऽद्य विगलद्वदनप्रसादः कश्चित्तृतीयपदतः पतितः पृथिव्याम् ।
तन्मे मतिः समुदियाय परावरज्ञा स्वर्गस्तु हन्त नरकादपि दुर्विपाकः

47.6

आरुह्य तुङ्गपदवीं पतितादनार्यान्नारूढ एव हि वरं प्रकृतौ स्थितो यः ।
अङ्गानि हंत किल तस्य न चूर्णितानि खेदो न चेतसि न वा परिहासपीडा

47.7

नाडीं प्रविश्य यदि जीवति भीतभीतः प्रान्ते च खादति मृतिश्चिरजीवनं किम् ।
देहस्वभावरहितः परमात्मभावे तिष्ठन्मृतिं जयति चेच्चिरजीवनं तत्

47.8

आलोकितानि च मतानि मुनीश्वराणामालोकिताश्च बहवो बहुसिद्धमार्गाः ।
अद्यापि तं मलिनभावमपास्य दूरं सिद्धिस्तु किं न यदि सिध्यति नित्यसिद्धः

47.9

अङ्गं प्रसार्य पतितः खलु चित्स्वरूपे निद्रालुतां गत इति प्रविनष्टचेष्टः ।
विन्ध्यस्य योजनशतायतिका शिलेव नैव ह्रसामि न च वृद्धिमुपैमि पूर्णः

47.10

परिलसति पिता मे सर्वलोकस्य राजा धृतिमतिबलहेतुर्यौवनं मे नवीनम् ।
इयमपि च सुबुद्धिः काचिदूढा वराङ्गी सुखमधिकमतः किं मत्परो नास्ति धन्यः

47.11

समरसपदचिन्ताऽनन्तसन्तोषवन्तः क्षणसुखकणतृष्णातन्तुमन्तर्विमुच्य ।
निजसुखनिधिविद्याराजसिंहासनस्था वयमिह कलयामः कालमालम्ब्य देहम्

47.12

कति कति न हि जीवा देवराजादयोऽमी पदपतनहताशाः संसृतौ संसरन्ति ।
गुरुपदमवलंब्य ब्रह्मविद्यातरिस्था अधिगतपरपारास्ते वयं धन्यधन्याः

47.13

व्योम व्योमचरैर्न लिप्तमपि यत्तत्सर्वदा नीरसं क्षीराब्धिः सरसोऽपि वृद्धिमधिकां लब्ध्वा पुनर्मुञ्चति ।
हेमाद्रिर्जनको मुदामपि मुदां नैवाश्रयो नीरसो न क्षीणो न च नैव मोदरहितोऽहं तत्तुला नास्ति मे

47.14

सायं प्रातरनेकरङ्गमपि तन्नानेकरङ्गाश्रयं यान्त्यायान्ति पयांसि तत्र न पयोरेखाऽपि दृष्टा क्वचित् ।
सज्ञानेन मया विगाह्य तदहो दृष्टं नभो निर्मलम् नीलं नीलमिति प्रथैव नभसो मिथ्या नभोनीलिमा

47.15

रूप्ये रूप्यमतिः कृता कृतधिया रङ्गे पुनर्दुर्धिया सत्यं द्वावपि संस्थितौ निजधिया स्वे निश्चये निश्चले ।
एकस्यैव दरिद्रता व्यपगता तस्थौ द्वितीयस्तथा सञ्जाते क्रयविक्रयव्ययविधौ व्यक्तो विशेषस्तयोः

47.16

निम्ना नूनमुदन्वतः स्थितिरियं कल्लोलिनी चेत्कृता विक्षिप्तेन कुतश्चिदागतवता विन्ध्याटवीवायुना ।
तत्किं नायमपां निधिः किमथवा स्थानादसौ चालितः किन्तु प्रत्युत तादृशोऽपि महिमा विख्यापितो वारिधेः

47.17

माधुर्यं च पयस्त्वमाश्रितवता तुच्छे दधित्वाम्लते रूपे संप्रति बिभ्रता तु पयसा सर्वं यशो हारितम् ।
ग्रैवेयत्वमथाङ्गदत्वमथ च क्षुद्रत्वमक्षुद्रतां पर्यायैर्भजतः स्वभामजहतो हेम्नस्तु नास्ति क्षतिः

47.18

न हि न हि चतुरास्ते यैर्न बुद्धं विशुद्धं न हि न हि कृतिनस्ते ये न पारं प्रयाताः ।
न हि न हि तु कुलीना यैर्न तत्त्वं विविक्तं न हि न हि मुनयस्ते यैर्धृता लोभवार्ता

47.19

हेऽहंकृते तव न कृत्यमिहास्ति किञ्चिल्लीना भव स्वमहिमन्यचलप्रतिष्ठे ।
चेतस्त्वमेहि परमं स्वसुखाब्धिमन्तः सोढुं न शक्नुम इमास्तव दुष्टवृत्तीः

47.20

आयान्ति नैव सुत तत्र मनोविकारा आयान्ति चेदिह विचारय जोषमास्यम् ।
त्वं चापि मन्दमिह सञ्चर मुञ्च मोहं सोऽहम्पदे सुखनिधौ यदि ते मनीषा

47.21

तीव्रं तमः समय एष निशीथनामा देशोऽपि चौरबहुलः शिथिला च भित्तिः ।
इत्थं स्थिते निजधनं प्रति सावधानो जागर्त्ति चेद्गृहपतिर्विफला हि चौराः

47.22

भूपालकैर्निशितशास्त्रधरैरुदारैर्दुष्टं मृगं शमयितुं मृगया विधेया ।
दुष्टो मृगो न निहतो निहतास्तदन्ये व्यर्थस्य तत्क्षितिपतेर्वद कः प्रभावः

47.23

इष्टे नष्टे नश्वरे त्यक्तभोगः सञ्जातालंप्रत्ययो वीतरागः ।
तां तां कक्षां स्वैरमभ्येति सूक्ष्मां यां यामन्ते साधकाः साधयन्ति

47.24

हृदि यदि सविचारास्तर्हि सम्यक्प्रचारा गतिमनुगतिभाजः केवलं दुःखभाजः ।
परिकलय यदन्धैर्नीयमाना इवान्धा युगपदपि समेता अन्धकूपे पतन्ति

47.25

एकः प्राह पठेति मां तदितरः प्राहाट दूराटवीमन्यः प्राह समेधयाग्निमपरः प्राहार्कमालोकय ।
स्विष्टेप्सुं प्रति मां वचो गुरुजनैरुक्तं त्वमेवासि तत्स्विष्टाप्तेर्मम घूर्णितेऽपि नयने अन्धा न पश्यन्त्यमी

47.26

येषां वज्रदृढं कपोलमथवा जिह्वा वितस्त्यायता ख्यात्त्यर्थं कलहाय पुस्तकपिशाचानां कथा तिष्ठतु ।
मां पृच्छाच्छमते कथं विलसति ध्यानं कथं धारणा को भावः स्वरसेन केन विधिना चेतः परे लीयते

47.27

जिह्वे देवि गृहाण मौनमधुना भूयस्त्वया जल्पितं प्रत्यग्वस्तुनि निष्ठिता यदि मतिस्तत्किं प्रलापास्तव ।
स्वच्छन्दोपरमामृताब्धिलहरीलावण्यलग्ने हृदि प्रायः कर्कशतां गताऽसि कुटिले तस्मान्न मे रोचसे

47.28

सम्पूर्णं जगदेव नन्दनवनं सर्वेऽपि कल्पद्रुमा गाङ्गं वारि समस्तवारिनिचयाः पुण्याः समस्ताः क्रियाः ।
वाचः प्राकृतसंस्कृताः श्रुतिगिरो वाराणसी मेदिनी सर्वैव स्थितिरस्य मुक्तिपदवी दृष्टे परे ब्रह्मणि

47.29

ओतं प्रोतमिदं विचित्रमखिलं यस्मिञ्जगद्वर्त्तते यत्रोदेति विलीयते पुनरिदं तोये तरङ्गादिवत् ।
तच्चेतो मयि लीयते प्रतिदिनं मय्येव तज्जायते मह्यं तर्हि वदन्तु हे लयविदः सोऽहं तु लीये क्व नु

47.30

बाला श्वश्रूजननियमिता देहलीदत्तदृष्टिर्दीर्घं चक्षुः किरति वदने यौवनालंकृतस्य ।
युक्तस्यैवं न चलति ततो भ्रूतटे दत्तदृष्टेश्चेतोवृत्तिः स्फुरति पुरुषे मोक्षलक्ष्मीनिवासे

47.31

पर्यन्तै रहितस्य यस्य महती गम्भीरता तादृशी मग्ना यत्र विभान्ति नो अगणिता ब्रह्माण्डमृत्पिण्डिकाः ।
यादृक्तस्य चिदर्णवस्य सुरसो यादृक्स्वरूपं महत्तत्कस्मै कथयामि कस्य विषयः को वाऽस्य वक्ता भवेत्

47.32

आख्यास्यामि रमावरस्य पुरतो गौरीवरस्याथवा शब्दब्रह्ममयीवरस्य पुरतस्त्वअस्य कस्यापि न ।
प्रह्लादप्रवणं प्रकाशपरमं संवेदितं संविदा शान्ते चेतसि यत्कुतूहलमये निर्जिह्ममुज्जृम्भितम्

47.33

तृष्णाभिर्गलितं क्षमाभिरुदितं प्रज्ञाभिरुन्मीलितं मोहैरस्तमितं भ्रमैः प्रचलितं द्वंद्वैश्च दूरं गतम् ।
बोधैरुल्लसितं सुखैर्विलसितं संमीलितं संशयैः स्वं धाम स्फुरितं यदैव मुनिना निर्मायमालोकितम्

47.34

पूर्वं नाम किमन्तरं समभवद्यन्नेदमालोकितं किं वा कारणमस्ति जातमधुना येनेदमालोक्यते ।
इत्थं विस्मयवन्मनो हि विदुषां विज्ञाननिद्राघने तत्रानन्दवने मुनीन्द्रसदने लीनं परब्रह्मणि

47.35

शुद्धे बोधे स्फुरति परितः क्षालिता वासनाङ्काः क्षीणं चित्तं विरतिरुदिता कर्मपाशा विशीर्णाः ।
भग्नो भेदः सुखमधिगतं कल्पना दूरमुक्ता दृष्टे तत्त्वे करबदरवन्नास्ति कर्त्तव्यशेषः

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc