भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 46

46.1

[प्. 717-]
जीवन्मुक्त्यष्टादशी
संकल्पबद्धं संकल्पाद्विमोच्यात्मानमात्मना ।
आत्मनाऽऽत्मनि सन्तुष्टः स्वात्मारामः स्वयं हरिः

46.2

स्वरूपमेव कैवल्यं संसारः शुद्धमूर्खता ।
अतिचित्रा गतिः पुत्र जीवन्मुक्तस्य या स्थितिः

46.3

जीवन्मुक्तिसुखप्राप्त्यै स्वीकृतं जन्म लीलया ।
आत्मना नित्यमुक्तेन न तु संसारकाम्यया

46.4

यदि न स्यादविद्याऽऽख्यमिदं कपटनाटकम् ।
कथं लभेत विश्वात्मा जीवन्मुक्तिमहोत्सवम्

46.5

अद्वैतं न सदेहेऽस्ति विदेहे द्वैतमस्ति न ।
जीवन्मुक्तस्य नान्यस्य द्वैताद्वैतमहोत्सवः

46.6

सदेहे न विदेहत्वं विदेहे न सदेहता ।
सदेहत्वं विदेहत्वं जीवन्मुक्ते प्रवर्त्तते

46.7

सदेहस्य विदेहत्वं यदि न स्यात्तदा वद ।
जनकस्य सदेहस्य कथं प्रोक्ता विदेहता

46.8

विदेहस्य सदेहत्वं यदि न स्यात्तदा वद ।
जनकस्य विदेहस्य कथं प्रोक्ता सदेहता

46.9

विमुक्तिर्निश्चिता शास्त्रे जीवन्मुक्तिः सुनिश्चिता ।
जीवन्मुक्तत्वमप्राप्य न विदेहविमुक्तता

46.10

ज्ञानं विना न कैवल्यं न मृतो ज्ञानवान्भवेत् ।
जीवतो ज्ञानलाभः स्यात्सा जीवन्मुक्तिरक्षता

46.11

जीवन्मुक्तिसुखं स्वल्पकालं किं तेन चेच्छृणु ।
ब्रह्मलोके विराजन्ते कथं ते सनकादयः

46.12

तस्मादीश्वरलीलेयं काचिदीश्वररूपिणी ।
जीवन्मुक्तिर्महामुक्तेः संप्रदायप्रवर्त्तिनी

46.13

यस्यां खेलन्ति मुनयो नारदाद्या निरन्तरम् ।
ज्ञानिभिर्याऽनुभूतैव सा जीवन्मुक्तिरक्षता

46.14

चित्तविक्षेपकर्त्तारं विहारं तु विहाय ये ।
स्थिता निर्वाणनिष्ठायां त एव सनकादयः

46.15

अन्तर्बोधमया लोके व्यवहारपरा इव ।
ये स्थिता निजनिष्ठायां त एव जनकादयः

46.16

गृहं वास्तु वनं वाऽस्तु येषां निष्ठा न वर्तते ।
सनकादिषु नैवैते न च ते जनकादिषु

46.17

अन्तःसारा हि गुरवः स्वल्पवाचाऽमृतप्रदाः ।
मन्द्रं मन्द्रं हि गर्जन्ति प्रावृषेण्याः पयोधराः

46.18

सदैवाध्ययनीयेयं भावनीया सदैव हि ।
जीवन्मुक्तिपदप्राप्त्यै जीवन्मुक्तिचतुर्दशी

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc