भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 43

43.1

[प्. 656-]
ज्ञानगङ्गातरङ्गोनाशीतिकम्
ज्ञानगङ्गातरङ्गोनाशीतिकं शृणु सांप्रतम् ।
एकेनाप्यङ्गलग्नेन सर्वपापक्षयो भवेत्

43.2

वाङ्मयं खं हि सर्वत्र वाचो मूकस्य दुर्लभाः ।
चिन्मयं ब्रह्म सर्वत्र विद्याहीनस्य दुर्लभम्

43.3

प्राचीमथ प्रतीचीं वा यत्र क्वचन गच्छतु ।
तमसा दृश्यते नैषा ब्रह्मचिद्भास्करो यथा

43.4

आकाशमण्डले शून्ये यथा नक्षत्रमण्डलम् ।
चिद्ब्रह्ममण्डले शून्ये तथा संसारमण्डलम्

43.5

जाग्रत्स्वरूप एवायं पश्यन्त्स्वप्नमयं जगत् ।
सुषुप्त इव चिद्रूपे मुनेस्तुर्यस्थताऽद्भुता

43.6

मुमुक्षा दम्भमात्रं ते न ते तीव्रा मुमुक्षुता ।
तीव्रा यदि मुमुक्षा स्यान्न विलम्बो भवेदियान्

43.7

अभूत्कुहूमयं विश्वं पक्षः स मलिनो गतः ।
इदानीं निर्मलः पक्षो जातं राकामयं जगत्

43.8

न तिष्ठति मनो यत्र गोः शृङ्गे सर्षपो यथा ।
शैला इव समाधिस्थास्तत्रैव स्थितिमागताः

43.9

जलप्रवाह इव याऽनवच्छिन्ना स्वभावतः ।
चतुर्दशधियां दूरे सा मुनेर्मननस्थितिः

43.10

परमात्मपदभ्रष्टः स पुनः परमात्मताम् ।
यया प्राप्नोति विश्वात्मा सा मुनेर्मननस्थितिः

43.11

प्रतिबिम्बं न गृह्णाति निर्मलो निकटस्थितः ।
प्रपञ्चवञ्चने युक्तिः सा मुनेरेव नामुनेः

43.12

अपसर्पन्त्विति प्रोक्ताः क्षणादपसरन्त्यमी ।
यदाज्ञया मनोभावाः स वशी कस्य नाद्भुतः

43.13

जारणात्कालकूटस्य शम्भोराशीविषा वशाः ।
मारणान्मनसस्तद्वन्मुनेरिन्द्रियवृत्तयः

43.14

अहन्ताममतात्यागः कर्त्तुं यदि न शक्यते ।
अहन्ताममताभावः सर्वत्रैव विधीयताम्

43.15

वर्णाश्रमवयोवेषाध्ययनाचारसुन्दरः ।
विना विचारवैराग्यैः पशुरेव न संशयः

43.16

तीक्ष्णे विचारवैराग्ये चित्ते यस्य निरन्तरे ।
स पण्डितः किमेतस्य साधनान्तरचिंत्तनैः

43.17

वर्धते मूलसेकेन मूलशोषेण शुष्यति ।
भस्मसात्क्रियते वह्निज्वालयेति तरुस्थितिः

43.18

वर्धते मनसः सेकैर्मनःशोषेण शुष्यति ।
भस्मसात्क्रियते बोधज्वालयेति भवस्थितिः

43.19

परपारस्थितं हंसं द्विधेव प्रतिबिम्बितम् ।
तथात्मानं विजानाति तटस्थः सत्यदर्शनः

43.20

चित्रमल्पेन कालेन बोधभर्जितचेतसः ।
भर्जितस्येव बीजस्य कार्यसाधकता गता

43.21

पङ्गवस्तु कृता एव दृगाद्या न चलन्ति यत् ।
अन्धानपि करिष्यामि न पश्यन्ति यथा जगत्

43.22

जानातु वा न जानातु ब्रह्म जीवस्य जीवनम् ।
जानाति चेत्परो लाभो न जानाति भयं महत्

43.23

ब्रह्मधेनोः स्वभावोऽयं देवधेनोर्विलक्षणः ।
भोक्तैव तद्दुग्धपानात्सद्यस्तद्रूपतां व्रजेत्

43.24

यदि योगे कृता बुद्धिः सप्तमीं गच्छ भूमिकाम् ।
मग्नश्चेद्गच्छ पातालमिति नीतिविदां वचः

43.25

मध्याह्नभास्करं द्रष्टुं साक्षाद्यदि तु न क्षमम् ।
पटव्यवहितं पश्येज्जले वा प्रतिबिम्बितम्

43.26

तथा चिन्मात्रचण्डांशुं निर्विकल्पं न चेत्क्षमः ।
सर्वव्यापितया पश्येदन्तर्यामितयाऽथवा

43.27

लक्षं शराः प्रयोक्तव्याः सूक्ष्मे लक्ष्येऽपि धन्विना ।
कदाचिद्दैवसंयोगादेकोऽपि तु लगिष्यति

43.28

सदैव चेतसो वृत्तिर्ध्यानाभ्यासे विधीयताम् ।
कदाचित्कृपया शम्भोरखण्डाकारता भवेत्

43.29

ब्रह्मणोऽपि ब्राह्मणः श्रेयानित्याह द्वाभ्याम् ।
लीलासिन्धोः कियदिव हरेः षोडशस्त्रीसहस्त्रं
निःसंख्याता विविधरुचिना येन भुक्ताः स्त्रियस्ताः ।
तादृङ्नीतः स पुनरनया भामया वश्यभावं ।
सम्यग्भुक्तो यदुपतिरतः सत्यभामैव धन्या

43.30

वर्त्तते ब्रह्म सर्वत्र ब्राह्मणो लभ्यते क्वचित् ।
समर्घाद्ब्रह्मणस्तस्मान्महर्घो ब्राह्मणो भवेत्

43.31

परसङ्गसुखासक्तं योगिनां योषितामिव ।
विहाय लोकसिद्धान्तं रमते स्वमते मनः

43.32

तोयरन्ध्रनिरोधेन भाति पूर्णं सरोवरम् ।
वृत्तिरन्ध्रनिरोधेन पूर्णो बोधः किमद्भुतम्

43.33

निर्मूला निष्कला शुष्का कदर्या भोगवासना ।
तया तिरोहितः स्वामी तृणेनेव महागिरिः

43.34

न देशकालौ न वयो न युक्तिर्न विदग्धता ।
यदैव वासनात्यागस्तव मुक्तिस्तदैव हि

43.35

उपायैः शोधिते क्षेत्रे निर्मलं बीजमर्पितम् ।
किं चित्रं धान्यसम्पत्तौ स देवो यदि वर्षति

43.36

कृतवाक्यविचारस्य परमार्थमभीप्सतः ।
ज्ञानं गरिष्ठमज्ञानमज्ञानं ज्ञानमुत्तमम्

43.37

व्याख्यासि वेदान्तगिरो जयसि द्वैतवादिनः ।
नान्तर्विशसि तन्मन्ये तत्रास्ति मरणं तव

43.38

मित्रेण कुशले पृष्टे पूर्वावस्थामनुस्मरन् ।
इदानीं कुशलं जातमिति हृष्यति योगवित्

43.39

कर्मठः काञ्चनालिप्तशून्यताम्रघटोपमः ।
विद्वांस्तु रत्नसम्पूर्णहेमकुम्भ इवोत्तमः

43.40

भूरुहत्वाविशेषेऽपि द्वयोरन्तरमीदृशम् ।
इक्षुकाण्डसमो विद्वान्दण्डकाष्ठसमः पशुः

43.41

विशालदृष्टौ रमते न त्वन्यत्र पतिर्मम ।
येन दृष्टिर्विशाला स्यात्स मन्त्रो मम दीयताम्

43.42

पूज्योऽयमिति विज्ञाय पूजितः स्वापितो गृहे ।
न भुक्तो मूढया स्वामी कश्चित्पुरुष इत्ययम्

43.43

भोगयोग्येन वेषेण व्यतीत्य शयने निशाम् ।
प्रियस्य भोगमप्राप्य प्रातः क्रन्दति कामिनी

43.44

चित्रपत्रे कृता नारी विचित्रा रूपसम्पदा ।
दृश्यते तावदेवाहो यावन्नायाति सुन्दरी

43.45

चिन्तामणिं कराद्भ्रष्टं मा शुचः प्राह मे गुरुः ।
दिनैः कतिपयैरेव पुनरेव मिलिष्यति

43.46

करोमि संशयं यावन्मुकुन्दमुखदर्शने ।
आश्वासयति मां तावत्परमा देवता मनः

43.47

कन्दर्पकोटिलावण्यं सत्यमुक्तं जनार्दने ।
कन्दर्पप्रमुखाः सर्वे तत्प्रकाशे पलायिताः

43.48

अश्रु मुक्तं वियोगिन्या राधया मेलनाशया ।
तत्रैव मायया गुप्तः प्राप्तः प्रकटतां हरिः

43.49

सौरभ्याय भ्रमन्त्येके मधु काङ्क्षन्ति चापरे ।
न भ्रमन्ति न काङ्क्षन्ति मधुमत्ता मधुव्रताः

43.50

धनं प्राप्नोति कष्टेन प्रदोषे काष्ठभारिकः ।
सुखासनस्थो विपुलं धनं रत्नपरीक्षकः

43.51

नर्त्तकी स्वाङ्गभङ्गेन धनं प्राप्नोति वा न वा ।
कुलाङ्गना कटाक्षेण स्वं वशीकुरुते पतिम्

43.52

तव बुद्धिप्रकाशोऽयं निकटां मुक्तिमाह माम् ।
नूनं निर्वाणसमये दीपो देदीप्यते भृशम्

43.53

एके खनन्ति वसुधां तथा विक्रयिणः परे ।
घर्षयन्त्यपरे रत्नं भोगं गृह्नाति भाग्यवान्

43.54

एके तक्रेण तुष्यन्ति दधिदुग्धेन चापरे ।
तत्त्वज्ञा नैव तुष्यन्ति नवनीतघृतं विना

43.55

यत्र क्वापि स्वपामीति जाता निद्रालुता मम ।
विस्तीर्णं शयनं प्राप्तं कोमलं ब्रह्म निर्मलम्

43.56

दृश्यं बोधेन निर्घृष्टं तच्चिदाकारतां गतम् ।
यत्र यत्रैव पश्यामि स्वं रूपं तत्र दृश्यते

43.57

यदेकोऽपि जनो गीर्णः स्तुवन्त्यजगरं जनाः ।
मां न स्तुवन्ति किं येन गीर्णा ब्रह्माण्डकोटयः

43.58

मय्यसूया न कर्त्तव्या बहु जल्पामि यद्यपि ।
ब्रह्मास्मीति वदाम्येव श्रुतिर्मां नाभ्यसूयति

43.59

सिंहासनं समाधिर्मे वेदान्ता मम वन्दिनः ।
मारितो मोहनामाऽरिर्मम राज्यमकण्टकम्

43.60

दृष्टं चिदम्बरं नाम मया विस्तीर्णमम्बरम् ।
इदं जडाम्बरं शून्यमत्यल्पं यदपेक्षया

43.61

ईष्तमन्नं क्षुधार्त्तस्य कृपणस्य धनं प्रियम् ।
तृषितस्य जलं त्विष्टं चैतन्यं मम वल्लभम्

43.62

रसायनप्रसङ्गेन गतं ताम्रमताम्रताम् ।
तथाऽस्माकमहङ्कारो निरहङ्कारतां गतः

43.63

पूर्वमासीदहङ्कारो मम दुःखस्य कारणम् ।
रिपुरद्य मृतो दृष्टः परमानन्दकारणम्

43.64

भोगेप्सूनां सभामध्ये भोक्ता कान्तो यथा युवा ।
मुमुक्षुणां तथा मध्ये राजते परमार्थवित्

43.65

गृहकार्यप्रसक्ताऽपि भुक्तभोगेव कामिनी ।
मनसैव मनो नूनमानन्दयति योगवित्

43.66

मुनिमानन्दितं दृष्ट्वा ग्रामीणो वक्ति तं मुहुः ।
त्वया यस्तु निधिः प्राप्तस्तं प्रदर्शय मामपि

43.67

वञ्चकैर्विषयैस्तात वद के के न वञ्चिताः ।
गुरुभिः पुरुषव्याघ्रैर्नूनमेतेऽपि वञ्चिताः

43.68

शीर्षे घटसहस्राम्भः पातयन्तु जडा जनाः ।
मौनमेवावलम्बेत शिवलिङ्गमिवात्मवित्

43.69

सविचारास्तु गुरवो विरक्ता गुरुसत्तमाः ।
विचारेऽपि विरक्ता ये गुरूणां गुरवो हि ते

43.70

दुस्त्यजान्विषयान्मूढो जिज्ञासुरपि मुञ्चति ।
विदां तद्रागदोषस्य त्यागे किमिव दुष्करम्

43.71

जायेत जातबोधानामपि सांसारिकी कथा ।
जागरे समनुप्राप्ते यथा स्वप्नकथा नृणाम्

43.72

मोहेन विस्मृते दृश्ये सुषुप्तिरनुभूयते ।
बोधेन विस्मृते दृश्ये तुरीयमवशिष्यते

43.73

दृश्यं चेत्स्याद्रविर्न स्यात्तम एकं तदा किल ।
रविश्चेत्स्याज्जगच्च स्याद्व्यवहारस्तदा किल

43.74

रविरस्ति जगन्न स्याज्ज्योतिरेकं तदा किल ।
इति लोकस्थितिः पुत्र परमार्थगतिं शृणु

43.75

नित्यो हि रविरस्माकं तस्य नाशो न विद्यते ।
तमोभूतेऽपि सकले तमःसाक्षी सदव्ययः

43.76

रविरस्ति जगन्नास्ति समाधानवतो मुनेः ।
अनेन हेतुना साधो ज्योतिरेकं तदा किल

43.77

रविरस्ति जगच्चास्ति व्यवहारावलोकिनः ।
रविर्नास्ति जगन्नास्ति तम एकं तदा किल

43.78

प्रकाश्यापगमे पुत्र प्रकाशः किं प्रकाशयेत् ।
प्रकाश्यत्वविनाशेऽपि प्रकाशत्वमखण्डितम्

43.79

आयातु यातु वा भानोः प्रकाश्यं निजहेतुभिः ।
न मम स्वप्रकाशस्य किञ्चिदायाति गच्छति

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc