भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 42

42.1

[प्. 651-]
चर्याचतुष्टयी
जात्या यद्यपि गौरमेव वदनं रूपस्य नास्ति क्षतिस्तत्किं कज्जलकालिमा मुखतले संलापनीयो बुधैः ।
अस्तु ब्रह्मविदः कृतैरपि न तैर्दुष्कर्मभिश्चेत्क्षतिः किं कामादिकदर्थिता वरमहो निःसङ्गसौख्यं वरम्

42.2

विद्यैवाधिगता सदाऽमृतमयी विद्यावता तत्सुखं स्थेयं वर्त्मनि सङ्गदोषरहिते सङ्गः पुनः कीदृशः ।
किं भूषाऽस्य वरा स्थितिः स्तुतिमयी सा राजसिंहासने द्वारि द्वारि कपर्दिकार्थमटनं किं वाऽस्य राज्ञो वरम्

42.3

शिष्टाचारपथं विना यदि भवेदात्मप्रबोधो महांस्त्याज्यस्तर्हि तु सर्वदैव विदुषा वर्णाश्रमाणां क्रमः ।
वर्त्म ज्ञस्य विलक्षणं यदि कृतात्किं चाकृतात्कर्मणः संगृह्णातु जनांस्तदा मुनिजनस्तेनापि नास्य क्षतिः

42.4

दत्तोऽसावृषभो जडश्च भरतो मङ्किश्च संवर्त्तकः कर्मभ्रष्टपथं गताः कथममी चेत्पूर्वपक्षस्तव ।
साधो जागरितान्प्रतीदमुदितं पश्यन्ति शृण्वन्ति ये निद्रान्धा न विलोकयन्ति न पुनः शृण्वन्ति वाच्या न ते

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc