भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 4.7

4.7.1

[प्. 58-]
कर्मविडम्बना
वंशपात्रमिवापूर्णं पूर्णं घटशतैरपि ।
क्रियाजालं कथं साधो विरागाय न जायते

4.7.2

ब्रह्मणो दिनमारभ्य यावदद्य कृताः क्रियाः ।
मुहूर्त्तं हन्त संसारी नैव निश्चिन्तताङ्गतः

4.7.3

अभाग्यं परमं पुंसां परपिण्डोपजीवनम् ।
तत्कथं नाम सौभाग्यं पुत्रपिण्डोपजीवनम्

4.7.4

मृतशब्देन सम्बोध्य मृतपिण्डं मृताहनि ।
मृताय दास्यते पुत्रस्तद्वरं किमुतामृतम्

4.7.5

अशनायां पिपासां च शोकं मोहं जरां मृतिम् ।
प्राप्नुवञ्च्छ्रुतिशास्त्रेभ्यो मा भव श्राद्धभक्षकः

4.7.6

दीर्घमायुर्जराभुक्त्यै धनं भूरि दुराधये ।
पुत्राः कलहदुःखाय संसारे दुःखमद्भुतम्

4.7.7

छायां पश्यति कायस्य रायो गर्वेण मुह्यति ।
जायां भजति भावेन मायां नो वेद वैष्णवीम्

4.7.8

यात्रासमागमसमे नतर्कितगतागते ।
पशुपुत्रकलत्रादौ ममता न मता समा

4.7.9

सुतरां गुरवोऽस्माकं वैयाकरणसत्तमाः ।
आदिश्य ममतास्थाने समतां साधयन्ति ये

4.7.10

त्यक्ष्यंत्यवश्यं च त्वान्त्वं च त्यक्ष्यसि यानपि ।
येषां त्यागे महत्सौख्यं तेषां त्यागेऽपि कः श्रमः

4.7.11

व्यवहारविमूढानां स्तुतिनिन्दामयः क्रमः ।
सोऽपि तत्कायपर्यन्तः कायः कतिदिनान्वयी

4.7.12

एकतः सकला लोका विकर्षन्ति यथाबलम् ।
पदार्थमालां बलवानेकः कालो गिलत्यसौ

4.7.13

लोला लक्ष्मीर्वयं लोला लोला विषयवृत्तयः ।
किं सुखं तत्र यत्राङ्ग जीवनस्यैव संशयः

4.7.14

शोकमोहौ भयं दैन्यमाधिर्व्याधिः क्षुधा तृषा ।
इत्यादि विविधं दुःखमिति संक्षेपकीर्त्तनम्

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc