भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 4.6

4.6.1

[प्. 46-]
लोभविडम्बना
न पिशाचा न डाकिन्यो न भुजङ्गा न वृश्चिकाः ।
संभ्रान्तयन्ति मनुजं यथा लोभो धियं रिपुः

4.6.2

मेरवो घृतबिन्द्वाभा दुराशादावपावके ।
कथं सहस्रलक्षाद्यैस्तर्हि तृप्यतु लोभवान्

4.6.3

आनिद्रं प्रातरारभ्य जाग्रति स्वप्नपूर्ष्वपि ।
भ्रमन्नो लभते शान्तिं स लोभस्य पराक्रमः

4.6.4

निधानं यक्षसर्पाद्या यदाक्रामन्ति यत्नतः ।
न पिबन्ति न खादन्ति तेषां हि गुरवः शठाः

4.6.5

दानभोगविहीनं च यदेव धनिनो धनम् ।
न तु तस्य मुखे धूलिर्दीयते भूमिगोपनैः

4.6.6

मूढस्ताम्रमये पात्रे संस्थापयति किं धनम् ।
पात्रे स्थितं धनं भद्रं किन्तु पात्रं परीक्षय

4.6.7

काकविष्ठाधनस्यार्थे कायक्लेशेन भूयसा ।
मदान्धा धनिनः सेव्या महतीयं विडम्बना

4.6.8

न लोभस्योपचाराय मणिमन्त्रौषधादयः ।
मणिमन्त्रौषधश्लाघी सोऽपि लोभपरायणः

4.6.9

किञ्चिद्धनकणं ध्यात्वा मुखमाढ्यस्य पश्यसि ।
करोषि श्वेव चाटूनि लोभेनापकृतं स्मर

4.6.10

लोहार्गलो भद्रहरो लोलताङ्को भयप्रदः ।
लुनात्युभौ च यल्लोकौ तेन लोभः प्रकीर्त्तितः

4.6.11

सकामाः कामिनीलुब्धा निष्कामा मोक्षलोभिनः ।
भावलुब्धो हि भगवान्निर्लोभोऽत्यन्तदुर्लभः

4.6.12

दुग्धफेनोज्ज्वला शय्या बाला चरणसेविनी ।
निद्रां न लभते भूपः परराष्ट्रजिगीषया

4.6.13

मार्गेषु मिलिताश्चौराः सख्यं तैः सह वर्धितम् ।
ते गता धनमादाय पश्चाच्छोचति मन्दधीः

4.6.14

स्वामी तु चौरवद्द्रव्यं गोपायति यतस्ततः ।
भार्यापुत्रादयश्चौरा भुञ्जते स्वामिनो यथा

4.6.15

पुत्रमित्रकलत्रेभ्यो गोप्यते यद्धनं जनैः ।
तेन मन्येऽवनं पापं सुकृत्या गोप्यते नहि

4.6.16

रागिणी गणिका वित्तं यद्वाञ्छति वरा हि सा ।
धिक्तं वैराग्यवक्तारं वाचालं वित्तलम्पटम्

4.6.17

धनिभ्यो धनमादाय श्लाघते शास्त्रपाठकः ।
बहुभ्यो मिथुनीभूय धनिभ्यो गणिका यथा

4.6.18

न शोभते तथैवायं लोभी वेदान्तवाचकः ।
चौर्येण निगडे दत्तो जटाभस्मधरो यथा

4.6.19

यदि वित्तार्जनेनैव विद्वांसो यान्ति गौरवम् ।
कस्तर्हि वेश्याविदुषोर्विशेष इति वर्णय

4.6.20

अनित्यमिति यो वक्ति सेवते नित्यमेव तत् ।
बहिर्मुखस्य तस्यास्यं मा दर्शय महेश्वर

4.6.21

कामकिंकरतां प्राप्य सकामाः सर्वकिंकराः ।
कामेनैव परित्यक्तो निष्कामः कस्य किंकरः

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc