भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 5.1

5.1.1

[प्. 66-]
धर्मजिज्ञासा
अथातो धर्मजिज्ञासा धर्मः प्रोक्तश्चतुर्विधः ।
नित्यो नैमित्तिकः काम्यः प्रायश्चित्तमिति क्रमात्

5.1.2

वर्णाश्रमसमाचाराः शौचस्नानादयश्च ये ।
आवश्यकास्ते नित्याः स्युरकृत्य प्रत्यवैति यान्

5.1.3

देशकालनिमित्ता ये ते तु नैमित्तिकाः स्मृताः ।
संक्रान्तिग्रहणस्नानदानश्राद्धजपादयः

5.1.4

प्रायश्चित्तात्मका धर्माः कृच्छ्रचान्द्रायणादयः ।
कामनापूर्वकं काम्यं मुमुक्षोर्न विधीयते

5.1.5

हरिप्रसादकाम्या च चित्तशुद्धेश्च कामना ।
मोक्षस्य कामना चेति कामनेयं न कामना

5.1.6

तस्मात्तया कामनया स्नानदानजपादिकम् ।
तीर्थव्रततपोनिष्ठा मोक्षकामैर्विधीयताम्

5.1.7

कर्मणां निर्णयं त्वेवं गीतायामाह माधवः ।
सर्वथा न परित्याज्यं नित्यं कर्म मुमुक्षुणा

5.1.8

ज्ञाने जातेऽपि न त्याज्यं लोकानुग्रहहेतुना ।
यो वासनापरित्यागः कर्मत्यागः स एवहि

5.1.9

न कर्मणां परित्यागः कर्मत्यागो मनोमयः ।
यज्ञो दानं तपश्चेति पावनानि मनीषिणाम्

5.1.10

कर्मणा चित्तशुद्धिः स्यात्तया तीव्रा मुमुक्षुता ।
ततो विवेकान्मुक्तिः स्यात्कर्म त्याज्यं कथं तु तत्

5.1.11

ये तु बोधेन संप्राप्तास्तात कर्मातिगां दशाम् ।
न विधेः किंकरास्तस्मात्स्वच्छन्दं विचरन्तु ते

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc