भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 4.1

4.1.1

[प्. 27-]
वैराग्यपीठिकाबन्धः
वैराग्यपीठिकाबन्धं प्रथमं शृणु सन्मते ।
न नेमिरेव यत्रास्ति स्थितिश्चक्रस्य कीदृशी

4.1.2

न शूद्रे वेदसंस्कारस्तैलञ्च सिकतासु न ।
न स्यात्करतले रोम तथा मुक्तिर्न रागिणि

4.1.3

वैराग्यं द्विविधं सूक्ष्मं तद्भेदमवधारय ।
जिज्ञासामुख्यमेकं स्याज्जिहासामुख्यमेव च

4.1.4

जिहासा संसृतेर्ब्रह्मजिज्ञासेति द्वयं मुने ।
एकमेव तथाप्यस्ति विशेषः कश्चिदत्र हि

4.1.5

राज्यभ्रष्टा दीर्घरोगाः पराधीना हतश्रियः ।
ये विरक्तास्तपस्यन्ति जिहासामुख्यमेव तत्

4.1.6

आधिव्याधिभयोद्वेगपारतन्त्र्यादिवर्जिताः ।
ये धीरा मुक्तिमिच्छन्ति शृणु तेषामयं क्रमः

4.1.7

कामधेनुर्गृहे येषां निवासो नन्दने वने ।
कश्यपाद्यास्तपस्यन्ति जिज्ञासामुख्यमेव तत्

4.1.8

आधिव्याधिभयोद्वेगपारतन्त्र्यादिपीडिताः ।
ये जीवा मोक्षमिच्छन्ति जिहासामुख्यता तु सा

4.1.9

मानुष्यं दुर्लभं प्राप्तं सच्छास्त्रैः संस्कृता मतिः ।
यदि न ब्रह्मविश्रान्तिस्तदस्माभिः किमर्जितम्

4.1.10

इत्येवं व्यवसायेन ह्याकाशफलपातवत् ।
जिज्ञासयन्ति ये धीरा जिज्ञासामुख्यता तु सा

4.1.11

विरोचनः कार्त्तवीर्यो बलिः श्रीराघवादयः ।
विरक्ता राजलीलायां ते हि तत्र निदर्शनम्

4.1.12

तीव्रात्संसारवैराग्याद्ब्रह्मजिज्ञासनं यदि ।
वैराग्यं पुण्यजीवानां जिहासामुख्यमेव तत्

4.1.13

ब्रह्मजिज्ञासया तात तीव्रया यो विधीयते ।
विरागो दृश्यभावेषु जिज्ञासामुख्यमेव तत्

4.1.14

सहजं यस्य वैराग्यं का वाच्या तस्य मुख्यता ।
अथ दोषाः प्रदर्श्यन्ते वैराग्यं दोषदर्शनात्

4.1.15

कथयामि समासेन सावधानमनाः शृणु ।
असमञ्जसतां साधो समारभ्य शरीरतः

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc