बोधसार · अध्याय 3
[प्. 24-]
ब्रह्मजिज्ञासा
अथातो ब्रह्मजिज्ञासा जिज्ञास्यं ब्रह्म केवलम् ।
तटस्थलक्षणेनाथ स्वरूपस्य च लक्षणात्
उत्पत्तिस्थितिनाशानां मूलकारणमीश्वरः ।
सर्वज्ञः सत्यसङ्कल्प इत्यादिषु तटस्थता
सच्चिदानन्दरूपं तत्स्वप्रकाशं परात्परम् ।
अनण्वित्यादिवेदोक्तं स्वरूपस्य तु लक्षणम्
गुणप्रधानभावेन यद्यत्किञ्चिदपेक्षितम् ।
नानाप्रकरणव्याजैस्तत्सर्वमभिधीयते
बहिरङ्गान्तरङ्गाणां साधनानामनुक्रमः ।
यदन्तरङ्गं यस्मात्तु तत्पश्चात्तु निरूप्यते
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0