भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 4.2

4.2.1

[प्. 34-]
कायविडम्बना
यं भूषयन्ति कनकैर्वसनैश्चन्दनैरपि ।
अविचारत एवायं कायो रम्यत्वमागतः

4.2.2

अस्य क्रव्यादभक्ष्यस्य कृशानोरिन्धनस्य च ।
परिणामकृशस्यैव केन कायस्य रम्यता

4.2.3

कलेर्वरमिदं स्थानं विग्रहो मूर्त्तिमानसौ ।
पञ्चभूतनिवासोऽयं कथं तत्र सुखी भवेत्

4.2.4

कारागृहं गर्भवासो बाल्यं केवलमूढता ।
तत्रापि दुःसहात्यन्तं पराधीनतया स्थितिः

4.2.5

कामबाणैर्यत्र पीडा कामिनीविरहज्वरः ।
पुष्कला पापसंपत्तिर्यौवनं विपदां वनम्

4.2.6

उन्नताऽनततां यातो जराक्षारविधूसरः ।
पुराणकूष्माण्डसमः कायो वृद्धस्य गर्हितः

4.2.7

मरणस्य तु किं वाच्यं मृत्युदूतभयं ततः ।
नरके तु महद्दुःखं स्वर्गे पतनजं भयम्

4.2.8

उत्तमाधमभावेन तत्राप्यस्ति विडम्बना ।
यदि पश्वादियोनिः स्यात्तदा दुःखस्य का कथा

4.2.9

पुनर्जन्म पुनर्मृत्युः पुनर्दुखं पुनर्भयम् ।
न जानाति गतिं जन्तुर्निमग्नो मोहसागरे

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc