भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 34

34.1

[प्. 608-]
हेतुमालाहीरावली
श्रुतिप्रामाण्यसिद्धेऽर्थे हेतुभिः किं तथापि हि ।
अपूर्वरचनात्मत्वादलङ्कारो महान्यतः

34.2

जन्म नामासतः सत्ता जातसाक्षात्कृतिर्मुनिः ।
सद्रूपतामेव गतस्तेन जन्म न विद्यते

34.3

प्राप्तवानमृतं ब्रह्म जातसाक्षात्कृतिर्मुनिः ।
अमृतं येन संप्राप्तं स मृतत्वं कथं व्रजेत्

34.4

मृतिः शरीरसंत्यागो जातसाक्षात्कृतिर्मुनिः ।
शरीरं त्यक्तवान्पूर्वं मृतस्य मरणं किमु

34.5

अहन्तया सहैवायं जातसाक्षात्कृतिर्मुनिः ।
कर्त्तृत्वमत्यजत्तस्मात्कर्मभिर्न स लिप्यते

34.6

स्वयमेव पवित्रात्मा जातसाक्षात्कृतिर्मुनिः ।
न च पुण्यैः पवित्रोऽसौ तेन पुण्यैर्न लिप्यते

34.7

अत्यन्तशुद्धरूपोऽसौ जातसाक्षात्कृतिर्मुनिः ।
तत्करोति पवित्रं यत्तेन पापैर्न लिप्यते

34.8

सहजानन्दरूपत्वाज्जातसाक्षात्कृतिर्मुनिः ।
येन हृष्यति तन्नास्ति तस्मादेष न हृष्यति

34.9

नापकर्त्तुं क्षमः कश्चिज्जातसाक्षात्कृतेर्भवेत् ।
अपकर्त्तुरभावेन स तु न द्वेष्टि कंचन

34.10

अप्राप्यमवशिष्टं किं जातसाक्षात्कृतेर्मुनेः ।
हानिर्नास्ति ततो हेतोर्न शोचति कदाचन

34.11

केनाप्येष प्रकारेण जातसाक्षात्कृतिर्मुनिः ।
ब्रह्म सर्वात्मकं प्राप्य न काङ्क्षति किमप्युत

34.12

न ह्यन्यो बलवान्कश्चिज्जातसाक्षात्कृतेर्भवेत् ।
यस्माद्बिभेति तन्नास्ति तस्मादेष बिभेति न

34.13

यदस्य कार्यं परमं जातसाक्षात्कृतेर्भवेत् ।
तत्सर्वमेव संसिद्धं न तस्मात्स विषीदति

34.14

मान्यस्तु पद्मजादीनां जातसाक्षात्कृतिर्मुनिः ।
मानितो यदि लोकेन स तु मानं न विन्दति

34.15

मान्य एव सुरेन्द्राणां जातसाक्षात्कृतिर्मुनिः ।
न मानितो यदि जनैरपमानं न विन्दति

34.16

उपकारापकारौ हि जातसाक्षात्कृतेर्मुनेः ।
शक्यौ न केनचित्कर्तुं तुल्यो मित्रारिपक्षयोः

34.17

गुणदोषदशाऽतीतं जातसाक्षात्कृतिर्मुनिः ।
प्राप्तवान्परमं धाम तुल्यनिन्दास्तुतिर्हि सः

34.18

गेहादिममता नास्ति जातसाक्षात्कृतेर्मुनेः ।
तेनानिकेत इत्युक्तो यत्रसायंगृहो मुनिः

34.19

अप्राप्तं प्राप्तवान्बोधं जातसाक्षात्कृतिर्मुनिः ।
स तु न क्षीयते तेन निर्योगक्षेम आत्मवान्

34.20

समो यद्यपि सर्वत्र जातसाक्षात्कृतिर्मुनिः ।
तथापि तत्स्तावकस्य मम स्तुतिफलं महत्

34.21

हेतुमालामयी धार्या कण्ठे हीरावली बुधैः ।
अपूर्वरचनात्मत्वादलङ्कारो महान्यतः

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc