बोधसार · अध्याय 35
[प्. 618-]
कैवल्यकुञ्चिका
कैवल्यकुञ्चिकां तात त्वं सम्यगवधारय ।
उद्घाटय कपाटं च बोधरत्नं करे कुरु
दृष्ट्या श्रुत्याऽनुभूत्या वा यो यो भावः परिस्फुरेत् ।
तं भावमविलम्बेन पञ्चधा शकलीकुरु
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ।
आद्यं त्रयं ब्रह्मरूपं मायारूपं ततो द्वयम्
नामरूपे तु नैव स्तस्तत्र हेतुं वदाम्यहम् ।
नाम तु व्यवहारार्थं कल्पितं न तु वास्तवम्
घटो न घो नापि च टस्तावुभौ यत्खमाश्रितौ ।
घः कण्ठ्यष्टश्च मूर्धन्यस्तावुभावपि नैकदा
एवं नामानि सर्वाणि रूपमङ्ग विचारय ।
घटस्तु पृथिवीरूपं सा जडा जलरूपिणी
तेजसो जलमुत्पन्नं तद्वायोः स च खोद्भवः ।
खादि सर्वमहङ्कारात्स च प्रकृतिसम्भवः
गुणात्मा प्रकृतिर्माया मायामय्येव नास्ति सा ।
नामरूपे ततो न स्तोऽथास्तीत्यादि विचारय
अस्ति सत्ता भाति चिच्च प्रियमानन्दलक्षणम् ।
सच्चिदानन्दरूपं तत्कैवल्यमवशिष्यते
समाधिस्तत्र कर्त्तव्यो ह्ययमर्थानुवेधितः ।
अथ शब्दानुविद्धं तु समाधिं कथयामि ते
नित्य एवास्मि शुद्धोऽस्मि चिद्रूपोऽस्मि निरन्तरः ।
सहजानन्दरूपोऽस्मि न मे माया न मे मलः
अस्मिन्नसति सत्ता हि चिद्रूपेण मयार्पिता ।
उपसंहृत्य सत्तां तां स्वसत्तायामहं स्थितः
विकृत्या विकृतिर्नाहं प्रकृत्या प्रकृतिर्न च ।
तथापि जातं मयि चेत्तर्हि जातमजातवत्
उपसंहर विश्वात्मन्निति यावद्वदाम्यहम् ।
उपसंहृतमेवेदं दृश्यते नैव तिष्ठति
इत्याद्युपनिषद्वाक्यपदतात्पर्यचिन्तया ।
शब्दानुविद्धनामा हि समाधिर्जायते मुनेः
अर्थानुवेधितस्तूक्तस्ततः शब्दानुवेधितः ।
तावुभौ सम्यगभ्यस्य विशेन्निरनुवेधितम्
शर्कराद्वितयं धृत्वा प्रणवो लिख्यते यथा ।
समाधिद्वितयं धृत्वा प्रणवार्थोऽपि लिख्यताम्
पटोः प्रणवलेखेषु ते हि नावश्यके यथा ।
समाधिद्वितयं तद्वत्प्रणवार्थपटोरपि
निर्विकल्पसमाधाने निष्ठा सा बोधयोगिनः ।
कपाटोद्धाटने हेतुरियं कैवल्यकुञ्चिका
रहस्यं हि रहस्यानां निधीनां परमो निधिः ।
युक्तीनां परमा युक्तिरियं कैवल्यकुञ्चिका
वसिष्ठव्यासपद्धत्या शङ्कराचार्यमार्गतः ।
सा पुनः शङ्कराचार्यैः करुणारसनिर्भरैः
अर्पितानन्दबोधेभ्यस्तक्रमेण बुधैर्धृता ।
अवधार्या विशेषण सेयं कैवल्यकुञ्चिका
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0