भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 33

33.1

[प्. 596-]
तुरीयतुलसीपत्रपूजा
तुरीयतुलसीपत्रैर्विष्णुपूजा निरूप्यते ।
प्रेमप्रधानभावेन शृङ्गाररसरूपिणी

33.2

तत्र गोपीवाक्यम्
दृष्ट्या मया मधुरया कलितोऽधुनाऽयं यत्कामिनीजनमनोहरणो मुकुन्दः ।
तं चिन्तयामि हृदये न सुखं गृहेऽस्मिंस् तस्मिन्वने भवतु तेन सहैव वासः

33.3

गोपालिकाऽस्मि चतुरा न च मे मनीषा देहश्रिता विविधगोरसवासना मे ।
किम्वा विधेयमिति चिन्तयती स्थिताऽहं तावद्बलान्मिलित एव मया मुकुन्दः

33.4

एकाकिनी बत गताऽस्मि वने निशीथे कुञ्जे निलीय रमणस्य रसो गृहीतः ।
चित्रं भजामि कलयामि न तत्र हेतुं सर्वाः प्रसन्नवदना यदिमा वयस्याः

33.5

किं वर्णयामि पुरतः किल कस्य वर्ण्यं किं वर्णितेन सखि वर्णयितुं न शक्यम् ।
अङ्गानि मे विगलितानि सहैव नीव्या दष्टेऽधरे रतिरसे रतिनायकेन

33.6

नन्वेतदेव सुकृतं फलितं मदीयं यत्कामिनीषु रसलंपट एष कृष्णः ।
लक्ष्मीपतेरितरथा न भवेदकस्माद् अस्मासु गोपवनितासु कथाप्रसङ्गः

33.7

तुरीयतुलसीपत्रैर्वनमाली सुपूजितः ।
अस्मिन्वने महामिष्टं यत्फलं तत्प्रयच्छति

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc