भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 2

2.1

[प्. 14-]
अथ शिष्यविवेकः ।
बीजं गुरुपदेशो हि जिज्ञासुः क्षेत्रमुच्यते ।
विवेकांकुरजो बोधद्रुमो मोक्षस्तु तत्फलम्

2.2

यद्यपि क्षेत्रबीजाभ्यां विना न द्रुमसंभवः ।
किं तु बीजमुपादानं निमित्तं क्षेत्रमुच्यते

2.3

द्रुमो बीजपरीणामो न क्षेत्रपरिणामकः ।
बोधो गुरुपरीणामो न शिष्यपरिणामकः

2.4

द्रुमो हि बीजजातीयः क्षेत्रजातीयको न हि ।
बोधो हि गुरुजातीयः शिष्यजातीयको न हि

2.5

बीजेन बीजजातीयस्तरुः क्षेत्रे समर्पितः ।
गुरुणा स्वात्मजातीयो बोधः शिष्ये समर्पितः

2.6

वह्निप्रभा हि वर्त्तिस्था तमो हन्ति प्रकाशते ।
तमोहन्त्री प्रकाशात्मा प्रभैव न तु वर्त्तिका

2.7

गुरुप्रभा हि शिष्यस्था तमो हन्ति प्रकाशते ।
तमोहन्ता प्रकाशात्मा गुरुरेव न शिष्यकः

2.8

यदग्निः काष्ठमारुह्य भस्मसात्कुरुते पुरीम् ।
भस्मासात्कारणं तत्र गुणो वह्नेर्न काष्ठगः

2.9

बोधात्मना गुरुः शिष्यमाविश्य दहति क्षणात् ।
यद्द्वैतं सा गुरोः शक्तिर्न शिष्यस्येति निर्णयः

2.10

यद्यप्युदयने भानोर्यथा पद्मं प्रकाशते ।
न काशन्ते तथा पद्माः काष्ठपाषाणमृण्मयाः

2.11

प्रकाशको रविर्यद्वत्पद्ममेव विकासयेत् ।
गुरुस्तथा बोधकः सञ्छिष्यमेव प्रबोधयेत्

2.12

प्रकाशकस्य महिमा प्रकाश्यादधिकः किल ।
सूक्ष्मं विशेषं वक्ष्यामि गुरुसूर्यस्य तं शृणु

2.13

तत्तद्विवेकवैराग्ययुक्तवेदान्तयुक्तिभिः ।
शिष्यं नयति गुर्वर्कः स्वैक्यं स्वाद्भिन्नमप्यहो

2.14

विकासकोऽपि तपनो न पद्मं स्वैकतां नयेत् ।
तस्मात्सर्वात्मभावेन सेव्या श्रीगुरुपादुका

2.15

तत्सत्यं दातृपात्राभ्यां विना दानं न सिद्ध्यति ।
तथापि पात्रं पात्रं स्याद्दाता परमकारणम्

2.16

भवेत्स्पर्शमणिस्पर्शाल्लोहं स्वर्णं न तन्मणिः ।
गुरुस्पर्शमणिस्पर्शात्स एव भवति क्षणात्

2.17

एवं विवेकतो धीमन्नुपयोगो द्वयोरपि ।
शिष्यो निमित्तमात्रं स्याद्गरिष्ठा गुरुपादुका

2.18

उपदेशक्रमो राम व्यवस्थामात्रपालनम् ।
इत्यादि वचनं तत्तु शिष्योत्साहविवृद्धये

2.19

सिद्धान्तः सर्वतन्त्राणां सद्यः प्रत्ययकारकः ।
सर्वदा भावनीयोऽयं गुरुशिष्यविनिर्णयः

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc