बोधसार · अध्याय 26
[प्. 559-]
ब्रह्मचर्चाविंशतिः
अर्चालक्षाऽधिका प्रोक्ता चर्चैव परमात्मनः ।
अतः शिष्यप्रबोधाय ब्रह्मचर्चा निरूप्यते
आधारः सर्वभूतानां तस्याधारो न कश्चन ।
निराधारस्वरूपं चेन्नास्ति ब्रह्म तदा क्वचित्
अधिष्ठानं विना कार्यं न तिष्ठति कदाचन ।
सर्वाधिष्ठानरूपं हि कथं ब्रह्म न कुत्रचित्
सर्वस्मात्तत्पृथग्ब्रह्म त्विति वक्तुं न शक्यते ।
यदात्मकमिदं सर्वं सर्वस्मात्तत्पृथक्कथम्
सर्वस्मादपृथग्ब्रह्म वक्तुमित्यपि नार्हसि ।
सर्वस्मात्पृथगेवेदमनुभूतं महर्षिभिः
आत्मरूपमिदं वाच्यमिति तर्कस्त्वया कृतः ।
अनात्मरूपं किं न्वस्ति स्वात्मरूपं यतस्त्विदम्
ज्ञानस्य ब्रह्म विषय इति वक्तुं न शक्यते ।
ज्ञानस्वरूपं तद्ब्रह्म ज्ञानस्य विषयः कथम्
ज्ञानस्वरूपमेवास्तु ब्रह्मेति यदि मन्यसे ।
ज्ञेयमेव न यत्रास्ति ज्ञानत्वं तस्य कीदृशम्
ज्ञातृस्वरूपमेवास्तु ब्रह्मेति यदि कल्प्यते ।
स्वयंप्रकाशरूपे हि ज्ञानस्याश्रयता कथम्
सर्वरूपमिदं ब्रह्म वक्तुं कः शक्नुयादिति ।
सदैकरूपमेवेदं यतः शाश्वतमुच्यते
एकरूपमिदं ब्रह्म न वक्तुमिति शक्यते ।
निर्गुणं तत्परं ब्रह्म स्यादेकत्वं यतो गुणः
निर्गुणं तत्परं ब्रह्म नूनमेतदसांप्रतम् ।
अनन्तेनैव गीयन्ते ह्यनन्ता एव तद्गुणाः
ब्रह्म नास्तीति को ब्रूयाद्भातीदं यस्य सत्त्वतः ।
तर्ह्यस्ति ब्रह्मेत्यपि नो नातः सत्ता पृथग्यतः
अस्वरूपमिदं ब्रह्म विद्वानिति कथं वदेत् ।
स्वस्वरूपमिदं ब्रह्म प्रत्यक्षमनुभूयते
स्वस्वरूपमिदं ब्रह्म चेदित्यप्ययथातथम् ।
तत्र को नु स्वशब्दार्थो यत्स्वरूपमिदं भवेत्
परव्यावर्त्तकं स्वत्वमिति चेत्तर्हि तद्वद ।
यत्र स्वपरभावो न ब्रह्म किं तत्र नास्ति हि
अहमेव परं ब्रह्म ब्रह्माहमिति च श्रुतेः ।
कथं भवेदहं ब्रह्माहन्ता यत्र न विद्यते
त्वमेव तत्परं ब्रह्म त्वं ब्रह्मेति श्रुतिर्जगौ ।
त्वमेव तत्कथं ब्रह्म त्वंता यत्र न वर्त्तते
तद्ब्रह्मेति श्रुतेर्वक्तुं तद्ब्रह्मेति न शक्यते ।
अत्यन्ताव्यवधाने हि परोक्षमिव तत्कथम्
नष्टायां मोहनिद्रायां गलिते मानसे मुनेः ।
यच्छिष्टं तत्परं ब्रह्म मनोवाचामगोचरम्
चर्चितुं योग्यया भूयस्त्वनया चर्चया बुधाः ।
चर्चयन्तु परं ब्रह्म तुष्यन्तु च रमन्तु च
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0