बोधसार · अध्याय 25
[प्. 545-]
उपदेशषोडशी
युक्त्यैव वृत्तिभिः पूर्णं रिक्तीकुरु मनोघटम् ।
न कश्चिद्भविता तात ब्रह्मणा पूरणे श्रमः
त्यज चिन्तां महाबुद्धे भज निश्चिन्ततासुखम् ।
त्वयाऽर्जितामिमां चिन्तां वद कोऽन्यः परित्यजेत्
चिन्तनीयं त्वया वस्तु चिन्तारोगस्य भेषजम् ।
अथवा तात चिन्ताऽऽख्यं रोगमेव परित्यज
वर्धिता वर्धते चिन्ता त्यक्ता नश्यति सत्त्वरम् ।
ईदृशेनापि रोगेण दुर्धियो मरणं गताः
कर्कशा कलहा कृत्या वन्ध्या नित्यममङ्गला ।
त्यज्यतां कामना चण्डी भुज्यतां मुक्तिसुन्दरी
जनैः पण्डित इत्युक्तः प्राप्नोषि परमं सुखम् ।
मनसा कर्मणा वाचा भव पण्डित एव तत्
नित्यमेव स्फुरद्रूपो ननु त्वं चित्स्वरूपतः ।
स्फूर्त्तिमूर्त्तेस्तवैवेयं काचित्स्फूर्त्तिरिदं जगत्
भास्वतो मम भामात्रमिति ज्ञाते भ्रमे गते ।
क्व द्वितीयं क्व संसारः क्व माया तत्कृतं किमु
ज्ञत्वं कर्तृत्वभोक्तृत्वे जडचैतन्यदृष्टयः ।
स्फुरणानि स्वकीयानि मणिर्भूत्वा विलोकय
परस्परमविज्ञाता जाग्रत्स्वप्नसुप्तयः ।
त्वया तिस्रः स्त्रियो भुक्तास्तुरीयां सुन्दरीं भज
जाग्रत्स्वप्नसुषुप्तानि पुनस्तानि त्वमीक्षसे ।
तुरीयं तव धामैव न तत्किमिति पश्यसि
मा धाव सुखहेतोस्त्वं धावतां न सुखं सखे ।
सुखरूपे निजे रूपे सुखं तिष्ठ सुखी भव
अत्र श्लोकाः ।
वरयोग्याऽसि कल्याणि न स्थास्यसि वरं विना ।
वरणीयो वरस्तादृग्यो भवेदजरामरः
न शृणोषि वरं यावत्तावत्ते कम्पते मनः ।
पश्चान्महोत्सवैर्भद्रे स्वामिनं त्वं वरिष्यसि
परेण पुरुषेणाद्य रमस्व वचनान्मम ।
सखि पश्चात्स्वतश्चित्तं कुरु यत्राधिकं सुखम्
यातं दिनं न पुनरेति नवं वयस्ते लज्जां विहाय भज तं रमणीयरूपम् ।
बाले परः पुरुष एष यदा समेतः स्वर्गेण किं किमु तदा नृसुखेन वा ते
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0