बोधसार · अध्याय 27
[प्. 572-]
स्वेच्छाचारचतुष्टयी
श्रोतव्या श्रीमता साधो नूनमेकाग्रचेतसा ।
परमार्थस्य सर्वस्वं स्वेच्छाचारचतुष्टयी
निजं पतिं परित्यज्य गृहस्थैव प्रपञ्चती ।
पत्या परेण रमते चतुराख्याऽअभिचारिणी
अहङ्कारं पृथक्कृत्य तुर्यबुद्धिर्दिने दिने ।
पत्या परेण रमते पुंश्चली परसङ्गिनी
पश्चात्तु स्त्रीजितः सोऽपि प्रतिकर्तुमनीश्वरः ।
अस्याः सम्भोगवेलायां गृहं सन्त्यज्य गच्छति
ईदृशे व्यवहारे तु दाम्पत्यं वद कीदृशम् ।
दिनैः कतिपयैरेव स्वेछाचारः प्रवर्त्तते
स्वानुभवानां सत्यपि बाधिताहन्कारे समाधिभङ्गो नास्तीत्यर्थः
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0