बोधसार · अध्याय 24
[प्. 540-]
बोधदीपपञ्चकम्
नाधारपात्रमादत्ते न च तैलमपेक्षते ।
न वर्तिकामाश्रयते न धत्ते कज्जलं मनाक्
न तापकर्त्ता कस्यापि वायुना न च कम्पते ।
न विनाशमवाप्नोति तमः सर्वं निहन्ति च
एकरूपाः प्रकाशन्ते सर्वे भावा यदर्चिषा ।
यदग्रे न प्रकाशेत च्छाया मायास्वरूपिणी
यश्चक्षुषामविषयो रूपाकारविवर्जितः ।
मनसोऽप्यप्रकाश्यश्च रूपाकारप्रकाशकः
कदाचित्क्वचिदेवासौ तात केनापि हेतुना ।
प्रवर्तते बोधदीपः सतां हृदयमन्दिरे
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0