बोधसार · अध्याय 23
[प्. 534-]
निर्वाणदशकम्
न शक्यं वक्तुमेवेदं तथापि कृपया तव ।
कया चित्कलया वत्स निर्वाणदशकं ब्रुवे
मोहनिद्रा न तत्रास्ति तेनायं जागरो महान् ।
भावादयो न भासन्ते तेनायं नैव जागरः
अपूर्वं भासते वस्तु तेन स्वप्नोऽयमुत्तमः ।
दृश्यं न भासते तत्र तेन स्वप्नो न चैव सः
अभावात्सा पदार्थानां सुषुतिः सुखरूपिणी ।
न जाड्यं न तमस्तत्र सुषुप्तिरपि नैव सा
अवस्थात्रयनिर्मुक्तं तुरीयमिति कीर्तितम् ।
नैवैकद्वित्रिविज्ञानं तुरीयं किमपेक्षया
जीवस्यैतन्निजं रूपं तेन जीवोऽयमुच्यते ।
जीवचेष्टा न तत्रास्ति तेन निर्जीवता स्फुटा
सच्चिदानन्दरूपत्वाद्ब्रह्म चेन्नापि तद्भवेत् ।
यो वेद स तु न ब्रूते यो न वेद गिराऽस्य किम्
तस्माच्छ्रुतिः प्राह सत्यमवाङ्मनसगोचरम् ।
यथाऽनुभूतं मुनिभिस्तथैवेदं न संशयः
एतदन्तः समाम्नाय एतदन्ता तपस्विता ।
उपदेशोऽप्येतदन्त एतदन्ता विवेकिता
श्रोतव्यं श्रुतिवाक्येन सर्वं ब्रह्म त्वया श्रुतम् ।
भवितव्यं यदि ब्रह्म तर्हि ब्रह्मैव भूयताम्
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0