बोधसार · अध्याय 22
[प्. 528-]
विद्वत्प्रभावनवकम्
अभावो यत्र भावानां स भावो यत्र वर्णितः ।
स्वभावसुखदं तात प्रभावनवकं शृणु
अयं विहाय कामादीन्क्षुद्रान्दूरगतो मुनिः ।
पश्यत्यपि कदाचित्तान्न चैनं प्राप्नुवन्ति ते
न यान्ति नूनं तज्ज्ञस्य सम्मुखे द्वैतदृष्टयः ।
दुष्टा दुष्टतया ज्ञाता दर्शयन्ति मुखं कथम्
माया मायेति विज्ञाता सर्वाकारविकारिणी ।
गता कुत्राप्यनावृत्यै संस्थितो निर्मलो मुनिः
निर्जिता विषया नूनं चपेटाभिश्च ताडिताः ।
नोपसर्पन्ति ते तस्मादस्मानेष हनिष्यति
तृष्णां विहाय तुच्छेभ्यो मुनिर्निःशल्यतां गतः ।
स्वरसायनतृप्तात्मा दिनानुदिनमेधते
पूर्वां मां वल्लभां त्यक्त्वा रमते विद्ययाऽधुना ।
इत्यविद्या लज्जितेव नायाति मम संमुखम्
ब्रह्म वक्तुं न जानाति यथाऽत्यन्तजडो जनः ।
तथैवात्यन्तबोधात्मा ब्रह्म वक्तुं न बुध्यते
नूनमालस्यदोषो हि शक्रस्यापि श्रियं हरेत् ।
यथा यथाऽलसो ज्ञानी वर्धतेऽसौ तथा तथा
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0