भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 21

21.1

[प्. 517-]
अनुभवनवकम्
स्वानन्दबोधगुरुभिर्गुरुभिर्निरुक्तं स्वानन्दबोधघनमेव मम स्वरूपम् ।
स्वानन्दबोधघनया कलया कया चित् स्वानन्दबोधघनमेव मयाऽनुभूतम्

21.2

श्रद्धाभक्तिभृतां विशेषविदुषां शिक्षावतां योगिनां मिथ्यावस्तुनि वस्तुतां विजहतां त्यागे गते गाढताम् ।
सत्ये सत्यतया स्फुरत्यविरतं चित्ते चमत्कारिणि स्वैरं स्फूर्जति निर्विकल्पपरमानन्दस्वरूपो हरिः

21.3

तृष्णां संहर संहरेन्द्रियचयं संहृत्य सर्वाः क्रियाश् चेतः संहर संहरान्यधिषणां खादप्यणुस्त्वं भव ।
अन्तः संप्रविशात्मधामनि मनागासादिते तत्पदे सर्वाज्ञानकपाटभञ्जनपटुर्भावः स्थिरः स्थास्यति

21.4

किं मां पृच्छसि सादरेण मनसा साधो समाधिक्रमं नूनं निर्गतमेव मोहतिमिरं जातः प्रकाशो महान् ।
आत्मस्नेहघनां दशामुपगते बोधप्रदीपे मयि द्रागुड्डीय पतन्ति वृत्तिनिवहा नष्टुं पतङ्गा इव

21.5

गाढं वाऽस्तु विलीनमस्तु न घृतं साधो घृतत्वाद्गतं चैतन्यस्य चमत्कृतिः किल तथा चित्तं तदेवाद्वयम् ।
तस्माच्चित्तलयस्य साधनमसौ तत्त्वे तु साक्षात्कृते प्रत्याहारपरिश्रमोऽपि स मया संत्यक्त एवाधुना

21.6

जाते विद्वदनुग्रहेण सहजानन्दागमे साधकैर् औदास्येन यथा यथा परिहृतः कष्टः स योगोद्यमः ।
आश्चर्यं न मनीषिताऽपि निबिडा निद्रा यथेयं बलाद् आयात्येव तथा तथा मुनिमतो गाढः समाधिक्रमः

21.7

ध्यानामृतार्णवनिमग्नसमस्तमूर्त्त्या तन्व्या धिया निगमिते निगमान्ततत्त्वे ।
आलोकितेष्वथ तटस्थधियाऽखिलेषु भावेषु बोधघनता सहजाऽभ्युपैति

21.8

एषा मधुमती विद्या सर्वत्र मधुदर्शनात् ।
स्वशरीरार्कवृक्षेऽपि दृष्टं यत्पुष्कलं मधु

21.9

विष्णोर्मे दर्शनं भूयादेवमासीन्मनोरथः ।
इदानीं कृपया विष्णोः सर्वं विष्णुमयं जगत्

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc