भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 20

20.1

[प्. 513-]
निद्रापञ्चकम्
न सन्ति यस्यां निद्रायां जाग्रत्स्वप्नसुषुप्तयः ।
अवस्थात्रयरूपिण्यः सर्वद्वन्द्वविवर्जनात्

20.2

गुणातीततया तत्र तमोलेशो न विद्यते ।
स्वयंप्रकाशरूपत्वादप्रकाशोऽपि नास्ति हि

20.3

यत्प्राप्तये महापुण्यास्तपस्यन्ति तपस्विनः ।
विचारयन्ति विद्वांसो वेदान्तवचनानि च

20.4

सुखभोगः फलं नात्र सैवानन्दस्वरूपिणी ।
पुरुषार्थस्वरूपत्वान्न कालक्षेपरूपिणी

20.5

सुलभा शुद्धबोधानां दुर्लभा विषयात्मनाम् ।
सहजा माधवादीनां सा निद्रा तु महाफलम्

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc