भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 19

19.1

[प्. 509-]
शिलाषट्कम्
अनन्तकोटिचन्द्राणां चन्द्रिकाभिः कृता किमु ।
आह्लादरूपिणी दृष्टा मया धेनुः शिलामयी

19.2

न धावति न हन्त्येव न खादति पिबत्यपि ।
स्वभावनिर्मला सेयं हृष्टिपुष्टिमती स्थिता

19.3

रोमरेखासु विभ्रान्तास्तस्या ब्रह्माण्डकोटयः ।
अपर्यन्ता स्थिता धेनुः सा काश्मीरशिलामयी

19.4

आयान्ति यान्ति धावन्ति नृत्यन्ति च हसन्ति च ।
प्रतिबिम्बा जीवरूपास्तस्याः सा तु यथा स्थिता

19.5

नीरसाऽपि सुधामिष्टा निर्गुणाऽपि प्रिया सताम् ।
नीरूपाऽप्यतिकान्ता सा मया दृष्टा न तु श्रुता

19.6

स्रवन्तीममृतं नित्यं जिह्वया ब्रह्मविद्यया ।
वत्सः शिलामयो भूत्वा पिब धेनुं शिलामयीम्

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc