भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 1

1.1

[प्. 2-]
बोधसारः
ओं किञ्चित्कुतूहलेनैव विदुषां प्रियकाम्यया ।
मङ्गलाचरणं कृत्वा बोधसारो निरूप्यते

1.2

अनन्तशक्तिसन्दोहपूर्णस्य परमात्मनः ।
विघ्नविध्वंसिनीं शक्तिं गणराजमुपास्महे

1.3

या प्रकाशविमर्शाभ्यां स्वरूपावस्थितिङ्गता ।
स्मरामि तामहं भक्त्या ज्ञानशक्तिं सरस्वतीम्

1.4

श्रीगुरून्परमानन्दस्वरूपानभिवादये ।
तापत्रयापहा येषां कृपा ब्रह्मामृतप्रपा

1.5

अथ गुरुस्तवः
मदमोहाभिधक्रूरमधुकैटभजिष्णवे ।
मोक्षलक्ष्मीनिवासाय नमः श्रीगुरुविष्णवे

1.6

गुणैर्गौरवमायाता हरिब्रह्महरास्त्रयः ।
गुणातीततयाऽस्माकं गुरवो गुरुताङ्गताः

1.7

पुरान्तकहरो रुद्रः कंसकेशिहरो हरिः ।
चण्डमुण्डहरा चण्डी सर्वद्वन्द्वहरो गुरुः

1.8

यच्छन्ति देवतास्तुष्टा धनमायुः सुतं यशः ।
ज्ञानं के नाम दास्यन्ति विना श्रीगुरुपादुकाम्

1.9

जयति श्रीगुरूणां हि चरणाब्जरजोगुणः ।
हतास्त्रयो यदेकेन रजःसत्त्वतमोगुणाः

1.10

तार्या वयं तरिर्बोधस्तरणीयो भवार्णवः ।
तत्कर्णधाररूपेण तारकं श्रीगुरुं भजे

1.11

तारकस्योपदेशेन गुरुर्भूत्वा विमुक्तिदः ।
काश्यामपीश्वरस्तस्मादीश्वरादधिको गुरुः

1.12

गुरोरनुग्रहादीश ईश्वरानुग्रहाद्गुरुः ।
श्रीगुरोर्दर्शनं हेतुः परं त्वीश्वरदर्शने

1.13

ईश्वरः सर्वहेतुत्वाद्धेतुःसंसारमोक्षायोः ।
मोक्षस्यैव गुरुस्तस्मान्नास्ति तत्वं गुरोः परम्

1.14

विनाऽपि क्षेत्रमाहात्म्यं गुरुमाहात्म्यतः किल ।
विमुक्तिर्यत्र कुत्रापि न काश्यां गुरुणा विना

1.15

क्षम्यतामिति किं वाच्यं प्रसीदेति किमुच्यताम् ।
क्षमाप्रसादसंपूर्णः स्वभावादेव मे गुरुः

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc