भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 18

18.1

[प्. 503-]
यमुनाष्टकम्
उज्ज्वला मधुरा शीता पवित्रा यमुनेव चित् ।
विविच्य दृष्टा हि मया श्यामिका याऽत्र स भ्रमः

18.2

यत्त्वं वदसि चिद्देवी नीरूपा तूज्ज्वला कथम् ।
तया प्रक्षालितं पश्य निर्मलं हृदयं मम

18.3

यत्त्वं वदसि चिद्देवी नीरसा मधुरा कथम् ।
आस्वादयन्ति तां नित्यं रसिकाः शङ्करादयः

18.4

यत्त्वं वदसि चिद्देवी निःस्पर्शा शीतला कथम् ।
पश्य तस्याः प्रसादेन गतं तापत्रयं मम

18.5

यत्त्वं वदसि चिद्देवी निर्गुणा पावनी कथम् ।
तत्पवित्रीकृतान्पश्य कचदत्तशुकादिकान्

18.6

अथ शिष्यः पृच्छति
गुरो लाक्षणिकैरेव किं लक्षयसि लक्षणैः ।
लक्षणैर्लक्षय स्वामिंस्तल्लक्ष्यं लक्ष्यते यथा

18.7

अत्रोत्तरम्
लक्ष्ये लक्षणवल्लक्ष्यमिह लक्ष्ये न लक्षणम् ।
विलक्षणमिदं लक्ष्यं लक्षणैवात्र लक्षणम्

18.8

पयस्यमलगम्भीरे श्यामिका भ्रान्तिरूपिणी ।
ब्रह्मण्यमलगम्भीरेऽप्यविद्या भ्रान्तिरूपिणी

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc