बोधसार · अध्याय 17
[प्. 475-]
निरञ्जनपञ्चाशत्कम्
यत्र प्रमाणं वेदान्ता अनुभूतिस्तथा सताम् ।
देवो निरञ्जनः सोऽयं बोधसारे निरूप्यते
अहमज्ञो न जानामि मामहं कोहमित्युत ।
अज्ञानप्रभवो भाव आत्मा शुद्धो निरञ्जनः
यदियं ब्रह्मविषया जीवस्य ध्येयतामतिः ।
स हि भ्रान्तिमयो भाव आत्मा शुद्धो निरञ्जनः
त्रिभिर्गुणैर्निबद्धोऽहं संसारे संसराम्यहम् ।
इत्याद्याः प्राकृता भावाः आत्मा शुद्धो निरञ्जनः
मनोबुद्धिरहङ्कारश्चित्तं चेति चतुष्टयम् ।
अन्तःकरणजा भावा आत्मा शुद्धो निरञ्जनः
यच्च सङ्कल्प्यते पूर्वं सङ्कल्प्य च विकल्प्यते ।
एते मनोभवा भावा आत्मा शुद्धो निरञ्जनः
इदमित्थमिदं नेत्थमिति निश्चीयते तु यत् ।
स हि बुद्धिमयो भाव आत्मा शुद्धो निरञ्जनः
ज्ञत्वकर्तृत्वभोक्तृत्ववध्यघातकतादयः ।
अहङ्कारभवा भावा आत्मा शुद्धो निरञ्जनः
स्मृतिः पूर्वानुभूतस्य प्रत्यभिज्ञा च तादृशी ।
एते चित्तभवा भावा आत्मा शुद्धो निरञ्जनः
ये विश्वतैजसप्राज्ञा जाग्रत्स्वप्नसुषुप्तिषु ।
अवस्थाभेदजा भावा आत्मा शुद्धो निरञ्जनः
निद्राऽऽलस्यं प्रमादश्च परिमोहो विषादकः ।
एते तमोभवा भावा आत्मा शुद्धो निरञ्जनः
शमो विवेकः सौम्यत्वं प्रकाशश्च प्रसन्नता ।
एते सत्त्वमया भावा आत्मा शुद्धो निरञ्जनः
लोभश्चञ्चलताऽक्षाणामारंभः कर्मणामपि ।
एते रजोभवा भावा आत्मा शुद्धो निरञ्जनः
विधिश्च च प्रतिषेधश्च धर्माधर्मौ शुभाशुभम् ।
कर्तृत्वभाविता भावा आत्मा शुद्धो निरञ्जनः
कृतिः कार्यं च करणं तत्र चेष्टाः पृथग्विधाः ।
कर्तृत्वस्यानुगा भावा आत्मा शुद्धो निरञ्जनः
शब्दः स्पर्शश्च रूपं च् रसो गन्धश्च पञ्चमः ।
पञ्चभूतोद्भवा भावा आत्मा शुद्धो निरञ्जनः
आकाशमनिलस्तेजस्तोयमुर्वी च पञ्चमी ।
पञ्चभूतमया भावा आत्मा शुद्धो निरञ्जनः
श्रोत्रं त्वङ्नयनं जिह्वा गंधग्राहश्च पञ्चमः ।
ज्ञानेन्द्रियमया भावा आत्मा शुद्धो निरञ्जनः
वाक्पाणिपादौ पायुश्च तथोपस्थश्च पञ्चमः ।
कर्मेन्द्रियमया भावा आत्मा शुद्धो निरञ्जनः
ध्वनिर्वर्णविभेदा य आहतानाहतादयः ।
शब्दभेदमया भावा आत्मा शुद्धो निरञ्जनः
निषादऋषभगान्धारषड्जमध्यमधैवताः ।
स्वरभेदमया भावा आत्मा शुद्धो निरञ्जनः
शीतोष्णमृदुकाठिन्यतीक्ष्णरूक्षादिभेदतः ।
स्पर्शभेदमया भावा आत्मा शुद्धो निरञ्जनः
रक्तं पीतं सितं कृष्णं हरितं चित्रमित्यपि ।
रूपभेदमया भावा आत्मा शुद्धो निरञ्जनः
कटुः कषायो मधुरो लवणोऽम्लश्च तिक्तकः ।
रसभेदमया भावा आत्मा शुद्धो निरञ्जनः
चित्राः परिमलामोदसौरभासौरभादयः ।
गन्धभेदमया भावा आत्मा शुद्धो निरञ्जनः
जरायुजाण्डजस्वेदसंभवोद्भिज्जकादयः ।
प्राणिभेदमया भावा आत्मा शुद्धो निरञ्जनः
ससुरासुरगन्धर्वयक्षरक्षोनरादयः ।
जीवजातिमया भावा आत्मा शुद्धो निरञ्जनः
शैववैष्णवसावित्रशाक्तगाणपतादयः ।
इष्टदैवतजा भावा आत्मा शुद्धो निरञ्जनः
वासिष्ठगार्ग्यशाण्डिल्यभार्गवाङ्गिरसादयः ।
गोत्रप्रवरजा भावा आत्मा शुद्धो निरञ्जनः
पौराणिकच्छान्दसिकज्योतिर्विद्भिषगादयः ।
विद्यावृत्तिभवा भावा आत्मा शुद्धो निरञ्जनः
प्राच्यौदीच्यप्रतीच्याद्या दाक्षिणात्यादयः परे ।
यागभेदोद्भवा भावा आत्मा शुद्धो निरञ्जनः
चित्रकृल्लेखकस्तक्षा वाचकः पाठकः परे ।
क्रियाभेदभवा भावा आत्मा शुद्धो निरञ्जनः
हेमगौरविशालाक्षसिंहसंहननादयः ।
कायसौन्दर्यजा भावा आत्मा शुद्धो निरञ्जनः
मूकान्धपङ्गुबधिरकाणकञ्जाक्षकादयः ।
कायवैरूप्यजा भावा आत्मा शुद्धो निरञ्जनः
पातालं वसुधा स्वर्गो महस्तपो जनादयः ।
लोकभेदभवा भावा आत्मा शुद्धो निरञ्जनः
सिंहव्याघ्रवराहर्क्षहरिणप्लवगादयः ।
पशुभेदभवा भावा आत्मा शुद्धो निरञ्जनः
त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्रादयः परे ।
धातुभेदभवा भावा आत्मा शुद्धो निरञ्जनः
प्राणापानसमानाश्चोदानव्यानौ च पञ्च ते ।
प्राणभेदभवा भवा आत्मा शुद्धो निरञ्जनः
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ।
उपप्राणमया भावा आत्मा शुद्धो निरञ्जनः
ज्वरापस्मारकुष्ठानि वातपित्तकफादयः ।
धातुवैषम्यजा भावा आत्मा शुद्धो निरञ्जनः
पिङ्गलेडा सुषुम्णा च गान्धारी हस्तिकादयः ।
नाडीभेदभवा भावा आत्मा शुद्धो निरञ्जनः
उत्क्रान्तिगत्यागतयो याः स्वर्गनरकप्रदाः ।
लिङ्गभेदोद्भवा भावा आत्मा शुद्धो निरञ्जनः
ब्राह्मणः क्षत्रियो वैश्यः शूद्र इत्येवमादयः ।
वर्णभेदभवा भावा आत्मा शुद्धो निरञ्जनः
ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ।
आश्रमप्रभवा भावा आत्मा शुद्धो निरञ्जनः
कापालिकाः क्षपणकाः स्वेच्छाचारा दिगम्बराः ।
पाखण्डप्रभवा भावा आत्मा शुद्धो निरञ्जनः
ममता संमता मूढैर्न मता समतास्थितैः ।
सोऽप्यहन्ताभवो भाव आत्मा शुद्धो निरञ्जनः
अहन्ताममते धीमन्नुभे मातृसुते अपि ।
ते परस्परकुट्टिन्यौ तदेकामपि मा स्पृश
सर्वे भावाः प्रलीयन्ते यस्मिन् भावे समुद्गते ।
सोपि बोधमयो भाव आत्मा शुद्धो निरञ्जनः
यत्र बोधमयो भावो नास्ति भावे समुद्गते ।
स हि शून्यमयो भाव आत्मा शुद्धो निरञ्जनः
शून्याशून्ये समे यस्मिन् भावे च समतां गते ।
स भावस्त्वमसि प्राज्ञ आत्मा शुद्धो निरञ्जनः
निरञ्जनस्य देवस्य पञ्चाशत्कविचारतः ।
निरञ्जनस्य देवस्य निरञ्जनपदं व्रजेत्
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0