बोधसार · अध्याय 16.28.4.5
[प्. 435-]
अथ पातञ्जलनिर्णयः ।
योगसिद्धिप्रसक्तोऽयं पातञ्जलपरिश्रमः ।
कलाकौशलमेवेदं न स्वरूपस्थितिर्हि सा
रे योगसिद्ध जीवानां कायव्यूहो न दुर्लभः ।
विदेहमुक्तता सिद्धिः कायव्यूहो न सिद्धये
हे योगसिद्ध जानासि परकायप्रवेशनम् ।
परं तु नैव जानासि परकायप्रवेशनम्
भूतादयोऽपि जानन्ति परकायप्रवेशनम् ।
सा सिद्धिर्नैव बन्धः सा यद्धि कायप्रवेशनम्
अवश्यं मरणं तर्हि कीदृशी चिरजीविता ।
जन्ममृत्युजराध्वंसि त्वं विज्ञानामृतं पिब
परचित्तस्थितं वस्तु त्वया ज्ञातं ततश्च किम् ।
स्वचित्तसंस्थितं वस्तु परं ब्रह्म विलोकय
निकटस्थस्यात्मनश्चेन्न स्याच्छ्रवणदर्शनम् ।
का सिद्धिः सा तु या सिद्धिर्दूरश्रवणदर्शनम्
भवन्ति वायसादीनामपि खेचरताऽऽदयः ।
सिद्धिभिर्नैव सिध्येत सिद्धिभिः किं प्रयोजनम्
न सिद्धिर्योगसिद्धिर्हि बलवीर्यादिसिद्धिकृत् ।
एतेन योगः प्रत्युक्त इति वेदान्तभाषितम्
सिद्धिरात्मपरिज्ञानमन्तरायास्तु सिद्धयः ।
इति चेद्योगवित्प्राह मतमस्माकमेव तत्
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0