बोधसार · अध्याय 16.28.4.4
[प्. 432-]
अथ सांख्यनिर्णयः ।
असंख्याः सांख्य तत्वानां संख्याः संख्यातवानसि ।
किं सांख्यसंख्यया ब्रह्म संख्यातीतं विचिन्तय
तत्त्वज्ञानं त्वया प्रोक्तं तत्त्वज्ञानं मतं मम ।
तत्त्वातीतस्य विज्ञानं तत्त्वज्ञानं हि मुक्तये
पुरुषस्य परीक्षार्थं मया संख्या निरूपिता ।
सांख्य एवं यदि प्राह तर्हीदं मम संमतम्
पुरुषान् न परं किञ्चित्सा काष्ठा सा परा गतिः ।
पुरुषं पश्य रे सांख्य संख्यया किं प्रयोजनम्
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0