बोधसार · अध्याय 16.28.4.6
[प्. 442-]
अथ मीमांसानिर्णयः ।
कष्टं कर्मेत्ययं न्यायो मतो मीमांसकस्य चेत् ।
आत्मनः क्लेशभागित्वं तेनैवांगीकृतं तदा
मीमांसकः सत्यमाह कष्टं कर्मेति कर्मवित् ।
तर्हि तस्यापि जिज्ञास्यं ब्रह्मानिष्टनिवृत्तये
कर्मणा संभवेज्जन्म जन्मना कर्मसंभवः ।
तर्हि कर्मजडस्यास्य जन्ममुक्तिः कथं भवेत्
मुक्तिप्राधान्यमेवास्ति बोधप्राधान्यवादिनाम् ।
जन्मप्राधान्यमेवास्ति कर्मप्राधान्यवादिनाम्
यः स्वयं कर्मजाड्येन यज्ञेष्वनधिकारतः ।
निष्काममशुचिप्रायं जगाद स कथं शुचिः
शुद्धिकृत्कामनिर्मुक्तं कर्म मीमांसितं वदेत् ।
तत्काम्यकर्ममीमांसा केवलं कष्टरूपिणी
कर्मभिश्चेतसः शुद्धिः शुद्ध्या विज्ञानमाप्यते ।
इति चेत्कर्मठः प्राह तर्हीदं मम संमतम्
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0