बोधसार · अध्याय 16.28.4.3.1
[प्. 427-]
तत्र प्रथमं वैशेषिकनिर्णयः ।
सविशेषाः पदार्था ये तत्र वैशेषिकः कृती ।
निर्विशेषं परं ब्रह्म तत्र वैशेषिकस्य किम्
मुक्तं साधर्म्यवैधर्म्यैस्तत्त्वज्ञानं हि मुक्तये ।
साधर्म्यवैधर्म्यकृतं तत्त्वज्ञानं न मुक्तये
श्रुतिः सर्वपदार्थानां विस्मृत्या मुक्तिमाह यत् ।
तर्हि सर्वपदार्थानां चिन्तनैः किं प्रयोजनम्
कथं साधर्म्यवैधर्म्ये तत्त्वज्ञानस्य कारणम् ।
न च साधर्म्यवैधर्म्यमद्वये परमात्मनि
पदार्थानां विवेकेन परमात्मा प्रकाशते ।
इति चेद्वदसि प्राज्ञ तर्हीदं मम संमतम्
बद्धमुक्तव्यवस्थायां नानात्मानो न वस्तुतः ।
नानाऽऽत्मानो व्यवस्थान इत्याह मुनिगौतमः
कल्पनागौरवं दोषः कल्पनालाघवं गुणः ।
इति यत्तार्किकैरुक्तं तदेव मम रोचते
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0