भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 16.28.2

16.28.2.1

[प्. 412-]
अथ भागवतश्रवणनिर्णयः ।
वृत्तिगोपीजनैः क्रीडन्ब्रह्मचर्यं न मुञ्चति ।
यत्रान्तरात्मा गोपालस्तद्भागवतमुत्तमम्

16.28.2.2

बालानां भक्षिका भीमा पूतना दुष्टवासना ।
कृष्णेन रुधिरं पीत्वा प्रापिता सापि तत्पदम्

16.28.2.3

अबलानां स्वनाथानाममृतत्वाय विष्णुना ।
ताडितः कालसर्पोऽपि सर्वमानन्दितं जगत्

16.28.2.4

ब्राह्मणा इव ता गावस्तीरस्था वन्यवृत्तयः ।
मोहाजगरनिर्गीर्णा गोविन्देन समुद्धृताः

16.28.2.5

स मूर्त्तिमानहङ्कारः कंसो नाम महाबलः ।
स्वयमुत्पत्य कृष्णेन धृत्वाऽसौ विनिपातितः

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc