बोधसार · अध्याय 16.28.1
[प्. 409-]
अथ पुराणश्रवणनिर्णयः ।
अथ भारतश्रवणनिर्णयः ।
अष्टादशाध्यायमयी यत्र गीता निरूपिता ।
सर्वोपनिषदां तत्त्वं तन्महाभारतं शृणु
भारते व्यासमुनिना कथानां विस्तरः कृतः ।
कथामात्रमिदं विश्वमिति तेन प्रकाशितम्
समाप्ते भारते ग्रन्थे शान्तिपर्व निरूपितम् ।
तदुक्तं सर्वशास्त्राणां शान्तौ परिसमापनम्
नानाख्यानैर्महारम्या मोक्षधर्मा निरूपिताः ।
तदुक्तं सर्वधर्माणां मोक्षधर्मा परा मताः
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0