बोधसार · अध्याय 16.10
[प्. 348-]
अथ प्राणायामनिर्णयः ।
शरीराभ्यन्तरो वायुः प्राणापान इतीरितः ।
स एव गतिभेदेन संज्ञादशकमागतः
ऊर्ध्वाधोगतिमुख्यं द्विरूपं तस्य गतिद्वयम् ।
ऊर्ध्वं गच्छन्भवेत्प्राणस्त्वपानः स्यादधश्चलन्
अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति ।
अनयोः शृङ्खला देहे तेन जीवो न निश्चलः
चले वाते चलं चित्तं निश्चले निश्चलं भवेत् ।
चित्ते चले चलः प्राणो निश्चले निश्चलो भवेत्
कश्चित्प्राणजयेनैव मनोनिश्चलतां भजेत् ।
कश्चिन्मनोजयेनैव प्राणनिश्चलतां भजेत्
कश्चिद्द्वयजयेनैव मनोनिश्चलतां भजेत् ।
इति योगगतिज्ञानां त्रिविधा योगिनां गतिः
प्राणद्वारा मनः साध्यं मतं हि हठयोगिनाम् ।
मनसैव मनः साध्यमिति विज्ञानयोगिनाम्
मनःप्राणद्वययुजस्ते तु श्रेष्ठतराः स्मृताः ।
चेच्छुष्कहठिनो मूढास्ते भण्डा न तु योगिनः
ते त्वर्धयोगिनः प्रोक्ताः क्षुद्रसिद्ध्यर्थयोगिनः ।
पिङ्गलेडा सुषुम्णा च मुख्यास्तिस्रस्तु नाडिषु
इडा वामा पिङ्गलान्या सुषुम्णा मध्यवर्तिनी ।
वामदक्षिणमार्गेण सदा वहति मारुतः
यदा द्वावपि रुध्येते प्राणमार्गौ सुयोगिना ।
तदाऽन्यत्सर्पवत्प्राणो रन्ध्रमाविशति स्वयम्
स्थिता कुण्डलिनी मूले जीवशक्तिरनुत्तमा ।
तामुत्थाप्य तया सार्धं सुषुम्णां प्राण आविशेत्
सुषुम्णावाहिनि प्राणे ब्रह्मरन्ध्रं गते सति ।
तत्र निश्चलतां याते मनो निश्चलतां व्रजेत्
मनो यदि निरुध्येत केवलं ज्ञानयोगिना ।
प्राणापानौ नश्यतस्तु मनोनाशेन तत्क्षणात्
तस्मात्सिद्धान्त एवैको हठविज्ञानयोगिनोः ।
शास्त्रोक्तमिति विज्ञाय निर्णयं प्राणचेतसोः
प्राणायामं मुनिः कुर्यान्मनोलयसमन्वितम्
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0