भाषा

ENहिગુ
ग्रंथ पाठ

बोधसार · अध्याय 16.9

16.9.1

[प्. 346-]
अथ प्रातःसंध्यानिर्णयः ।
अथोपयुक्तः क्रियते प्रातःसन्ध्याविनिर्णयः ।
मनोजन्म जगज्जन्म मनोनाशो जगल्लयः

16.9.2

तस्योन्मेषनिमेषाभ्यामुदयप्रलयौ यतः ।
समाध्यभ्यासशीलस्य पूर्वसंस्कारकारणात्

16.9.3

यदुत्थानं समाधानात्स सन्धिः सन्धिरत्र हि ।
तत्रापि प्राप्ततत्त्वानां गुरूणामुपदेशतः

16.9.4

खण्डितं नानुसन्धानं सा सन्ध्येत्युच्यते बुधैः

मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc